नालन्दा-विश्वविद्यालये पासपोर्ट-सेवा-चल-वाहन-शिविरम्, ५५ लाभार्थिभ्यः लाभः प्राप्तः
राजगीर-नगरम्, ११ अप्रैलमासः (हि.स.)। विदेश-मन्त्रालयस्य जनकेन्द्रित-उपक्रमः “पासपोर्ट-सेवा—आपके द्वार पर पासपोर्ट” इत्यस्य अन्तर्गतं क्षेत्रीय-पासपोर्ट-कार्यालयेन पटना-नगरस्थेन नालन्दा-विश्वविद्यालयस्य राजगीर-परिसरे एकदिवसीयं पासपोर्ट-सेवा-चल-वाहन-
राजदूत सिबी जॉर्ज, सचिव (पश्चिम), विदेश मंत्रालय, तथा नालंदा विश्वविद्यालय के कुलपति प्रो सचिन चतुर्वेदी hemhajd' cayeFn msbe ks cqks hj meL csx


राजगीर-नगरम्, ११ अप्रैलमासः (हि.स.)। विदेश-मन्त्रालयस्य जनकेन्द्रित-उपक्रमः “पासपोर्ट-सेवा—आपके द्वार पर पासपोर्ट” इत्यस्य अन्तर्गतं क्षेत्रीय-पासपोर्ट-कार्यालयेन पटना-नगरस्थेन नालन्दा-विश्वविद्यालयस्य राजगीर-परिसरे एकदिवसीयं पासपोर्ट-सेवा-चल-वाहन-शिविरं सफलतया आयोजितम्। अस्य विशेष-शिविरस्य उद्देश्यम् आसीत् विश्वविद्यालयेन सम्बद्धानां छात्राणां, अध्यापकानां, अधिकारिणां तथा शैक्षणिक-समुदायस्य कृते परिसरे एव पासपोर्ट-सेवाः उपलब्धाः कर्तुम्।अनेन उपक्रमेण पासपोर्ट-आवेदन-प्रक्रियायाः सरलीकरणं सुलभीकरणं च विशेषतया बलं दत्तम्। शिविरे समग्रतया ५५ लाभार्थिनः पासपोर्ट-सम्बद्ध-सेवानां लाभं प्राप्नुवन्। पूर्वं शिविरस्य उद्घाटनं भारतीय-विदेश-सेवा १९९३-वर्षीय-समूहस्य राजदूतः सिबी-जॉर्जः, विदेश-मन्त्रालयस्य सचिवः (पश्चिम) तथा नालन्दा-विश्वविद्यालयस्य कुलपतिः प्रोफेसरः सचिन-चतुर्वेदी इत्येताभ्यां कृतम्।चल-वाहनस्य माध्यमेन आवेदकेभ्यः एकस्मिन् एव स्थले सम्पूर्णा पासपोर्ट-प्रक्रिया सुलभा कृता। अस्याम् अन्तर्गतं प्रमाणपत्र-सत्यापनम्, जैवमितीय-दत्तांश-संग्रहणम् तथा आवेदन-समर्पणम् इत्यादयः सर्वाः प्रक्रियाः समाविष्टाः आसन्। व्यस्त-शैक्षणिक-कार्यक्रमस्य मध्ये एषा सुविधा आवेदकानां समयं संरक्षितवती तथा तेषां अध्ययनं अन्याः क्रियाः च न विशेषतया प्रभाविताः।

शिविरे विशेषतया तेषां छात्राणां सक्रिय-सहभागिता दृष्टा, ये उच्च-शिक्षायै, अनुसन्धानाय वा अन्तरराष्ट्रीय-अवसरार्थं विदेश-गमनस्य योजनां कुर्वन्ति। अनेन उपक्रमेण न केवलं सेवानां परिचय: वर्धितः, अपि तु आवेदन-प्रक्रिया अधिका प्रभावी सुगमा च अभवत्।

विश्वविद्यालय-प्रशासनेन अस्य आयोजनस्य सफलतायां महत्वपूर्णा भूमिका निर्वूढा। एतत् शिविरं नालन्दा-विश्वविद्यालयस्य विदेश-मन्त्रालयस्य च संयुक्त-प्रयत्नस्य प्रतीकम् अस्ति, यः यूनां वैश्विक-अवसरैः सह संयोजनं जनसेवानां परिचय-विस्तारं च प्रति स्वस्य प्रतिबद्धतां दर्शयति।

हिन्दुस्थान समाचार / Divya Ranjan