Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ११ अप्रैलमासः (हि.स.)। सामाजिक-समतायाः महिला-शिक्षायाः अग्रदूतः तथा सत्यशोधक-समाजस्य संस्थापकः महात्मा-ज्योतिबा-फुले इत्यस्य अद्य शनिवासरे जयंती अस्ति। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः तं स्मृत्वा विनम्रं नमनं कृतवान्।
मुख्यमन्त्री डॉ.यादवः सामाजिक-माध्यमे एक्स इत्यत्र सन्देशं प्रकाश्य महात्मा-ज्योतिबा-फुले इत्यस्मै जयंती-अवसरे नमनं कृत्वा लिखितवान्— “समता-शिक्षा-सामाजिक-न्यायस्य प्रबल-अग्रदूतः महात्मा-ज्योतिबा-फुलेमहोदयाय जयंती-अवसरे नमनं करोमि। तेन कुरीतिभ्यः असमानतायाश्च विरुद्धं स्वरः उत्थापितः, तथा शिक्षायाः माध्यमेन महिलाभ्यः वञ्चितेभ्यश्च अवसराः सृष्टाः। तस्य विचाराः समरसतायाः मानवतायाश्च मार्गे चलितुं प्रेरणां ददति।”
उल्लेखनीयं यत् महात्मा-ज्योतिबा-फुले-जयंती प्रतिवर्षं ११ अप्रैलमासे आचर्यते (१८२७–१८९०)। सः प्रमुखः भारतीयः समाज-सुधारकः, चिन्तकः क्रान्तिकारी-कार्यकर्ता च आसीत्, येन महिला-शिक्षा, बाल-विवाह-निषेधः तथा जाति-आधारित-भेदभावस्य विरुद्धं संघर्षः कृतः। तेन स्व-पत्नी सावित्रीबाई-फुले इत्यनया सह मिलित्वा बालिकाभ्यः प्रथमं विद्यालयं प्रारब्धम्।
हिन्दुस्थान समाचार / अंशु गुप्ता