महात्मा-ज्योतिराव-फुले-इत्यस्य २००-तम-जयन्त्यां नेतृभिः श्रद्धाञ्जलिः अर्पिता, शिक्षा-सामाजिक-न्याययोः योगदानं स्मृतम्
नवदिल्ली, ११ अप्रैलमासः (हि.स.)। महान् समाज-सुधारकः महात्मा-ज्योतिराव-फुले-इत्यस्य २००-तम-जयन्त्याः अवसरे देशव्यापि नेतृभिः तस्मै श्रद्धाञ्जलिः अर्पिता, तथा शिक्षा-समानता-सामाजिक-न्याय-क्षेत्रेषु तस्य योगदानं स्मृतम्। लोकसभा-अध्यक्षः ओम्-बिरला महा
महान समाज सुधारक महात्मा ज्योतिबा फुले (फाइल फोटो)।


नवदिल्ली, ११ अप्रैलमासः (हि.स.)। महान् समाज-सुधारकः महात्मा-ज्योतिराव-फुले-इत्यस्य २००-तम-जयन्त्याः अवसरे देशव्यापि नेतृभिः तस्मै श्रद्धाञ्जलिः अर्पिता, तथा शिक्षा-समानता-सामाजिक-न्याय-क्षेत्रेषु तस्य योगदानं स्मृतम्।

लोकसभा-अध्यक्षः ओम्-बिरला महात्मा-ज्योतिराव-फुलेमहोदयं प्रति नत्वा अवदत् यत् तेन शिक्षा समाजे सकारात्मक-परिवर्तनस्य सशक्ततमं साधनं कृतम्। तस्य प्रयासैः वंचितानां, शोषितानां, नारीणां च कृते नूतनाः अवसराः उद्घाटिताः।

रक्षा-मन्त्री राजनाथ-सिंहः उक्तवान् यत् महात्मा-फुलेन स्वस्य सम्पूर्णं जीवनं वंचित-शोषित-पृष्ठ-वर्गाणां उत्थानाय समर्पितम्, तथा शिक्षा-सामाजिक-न्याययोः कृते तस्य संघर्षः अद्यापि प्रेरणास्रोतः अस्ति।

केन्द्रीय-गृह-सहकारिता-मन्त्री अमित-शाहः अवदत् यत् महात्मा-फुले शिक्षा समाज-सुधारस्य प्रभावीतमं साधनं मन्यते स्म। तेन नारी-शिक्षायै अभूतपूर्वं कार्यं कृतम् तथा सत्यशोधक-समाजस्य स्थापना कृत्वा समानता-न्याययोः दिशि महत्वपूर्णं योगदानं दत्तम्।

केन्द्रीय-कृषि-किसान-कल्याण-मन्त्री शिवराज-सिंह-चौहानः उक्तवान् यत् फुले-इत्यस्य विचाराः ‘सर्वेषां सहयोगः, सर्वेषां विकासः’ तथा ‘अन्त्योदयः’ इत्यादिषु संकल्पेषु अद्यापि प्रतिबिम्बिताः सन्ति।

केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्री नितिन-गडकरी तं भारतस्य शैक्षिक-क्रान्तेः जनकं निर्दिश्य दलितोत्थानाय नारी-सशक्तीकरणाय च तस्य समर्पणं स्मृतवान्।

कांग्रेस-अध्यक्षः मल्लिकार्जुन-खड़गे महात्मा-फुले ‘क्रांतिसूर्यः’ इति निर्दिश्य उक्तवान् यत् अन्यायस्य विरुद्धे स्वर-उत्थापनं तस्य विचाराणां मूल-सन्देशः अस्ति।

लोकसभायां प्रतिपक्ष-नेता राहुल-गान्धी उक्तवान् यत् महात्मा-ज्योतिराव-फुले बहुजनानां अधिकाराणां कृते स्वजीवनं समर्पितवान्, तथा तस्य विचाराः अद्यापि समानतायाः मार्गं दर्शयन्ति।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् समाजः तदा एव प्रगच्छति, यदा प्रत्येकं जनाय शिक्षा, सम्मानः अवसराः च लभ्यन्ते—एषा शिक्षा महात्मा-ज्योतिराव-फुलेतः लभ्यते।

दिल्ली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता महात्मा-ज्योतिराव-फुले नारी-शिक्षायाः अग्रदूतः इति उक्त्वा तस्य योगदानं वैचारिक-क्रान्तेः आधारः इति अभवत्।

आम-आदमी-पक्ष-राष्ट्रीय-संयोजकः अरविन्द-केजरीवालः अपि महात्मा-ज्योतिराव-फुलें प्रति श्रद्धाञ्जलिं अर्पयन् उक्तवान् यत् तस्य आदर्शैः प्रेरिताः वयं न्यायपूर्णं शिक्षितं समाजं निर्मातुम् अर्हामः।

हिन्दुस्थान समाचार / अंशु गुप्ता