Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ११ अप्रैलमासः (हि.स.)। राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री तथा लोकसभा-अध्यक्षः महात्मा-ज्योतिराव-फुले इत्यस्य द्विशततमी-जयंती-अवसरे प्रेरणा-स्थले पुष्पाञ्जलिं अर्पितवन्तः।
लोकसभा-सचिवालयस्य अनुसारं राष्ट्रपतिः द्रौपदी-मुर्मु, उपराष्ट्रपतिः सी.पी.राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र-मोदी, लोकसभा-अध्यक्षः ओम-बिरला, राज्यसभा-उपसभापतिः हरिवंशः, स्वास्थ्य-परिवार-कल्याण-मन्त्री जे.पी.नड्डा, सामाजिक-न्याय-अधिकारिता-मन्त्री वीरेन्द्र-कुमारः, लोकसभायां विपक्ष-नेता राहुल-गान्धी, विधि-न्याय-संसदीय-कार्य-राज्यमन्त्री (स्वतन्त्र-प्रभार) अर्जुन-राम-मेघवालः, सांसदगणाः, पूर्व-सांसदगणाः, लोकसभायाः महासचिवः उत्पल-कुमार-सिंहः तथा अन्ये गणमान्य-व्यक्तयः अद्य संसद-भवन-परिसर-स्थिते प्रेरणा-स्थले महात्मा-ज्योतिराव-फुले इत्यस्मै पुष्पाञ्जलिं अर्पितवन्तः।
महात्मा-ज्योतिराव-फुले, ये लोकप्रियतया ‘महात्मा-फुले’ इति नाम्ना ज्ञायन्ते, उन्नविंशतितमे शताब्द्याः भारतस्य प्रमुखेषु समाज-सुधारकेषु अन्यतमः आसीत्। तेन स्व-जीवनं सामाजिक-आर्थिक-असमानतानां निवारणाय समर्पितम्, तथा निर्धनानां कृषकाणां समाजस्य वञ्चित-वर्गाणां च उत्थानाय निरन्तरं कार्यं कृतम्।तेन १८७३ तमे वर्षे ‘सत्यशोधक-समाजः’ संस्थापितः, यस्य उद्देश्यं शोषण-निवारणं भेदभावपूर्ण-प्रथाभ्यः पीडितानां मुक्तिः च आसीत्। सः तेषु आरम्भिक-विचारकेषु अपि आसीत् ये कृषेः महत्त्वं, कृषक-कल्याणं तथा कृषकाणां कृते वैज्ञानिक-शिक्षायाः आवश्यकता इत्यादिषु विषयेषु बलं दत्तवन्तः।
महात्मा-ज्योतिराव-फुले १८७६ तः १८८२ पर्यन्तं पुणे-नगर-पालिकायाः सदस्यः आसीत्, तथा १८८८ तमे वर्षे निर्धन-वञ्चित-जनानां मुक्तौ तस्य योगदानस्य मान्यतया तस्मै ‘महात्मा’ तथा ‘भारतस्य बुकर-टी.-वॉशिंगटन’ इत्युपाधिः प्रदत्ता। संसद-भवन-परिसरे स्थापितः महात्मा-ज्योतिराव-फुले इत्यस्य द्वादश-फुट-उन्नता कांस्य-प्रतिमा, या राम-वी.-सुतार इत्यनेन निर्मिता, ३ दिसम्बरमासे २००३ तमे पूर्व-प्रधानमन्त्री अटल-बिहारी-वाजपेयी इत्यनेन अनावृता, अद्य प्रेरणा-स्थले प्रतिष्ठिता अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता