Enter your Email Address to subscribe to our newsletters


उज्जयिनीनगरम्, ११ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्री-महाकालेश्वर-मन्दिरे शनिवासरे प्रातःकाले चलचित्रं ‘धुरंधर’ इत्यस्य अभिनेत्री सारा-अर्जुनः स्वकुटुम्बेन सह दर्शनार्थं आगता। अस्मिन् अवसरे तस्याः पिता राज-अर्जुनः माता सान्या च अपि उपस्थितौ आस्ताम्।
अभिनेत्री सारा प्रातः प्रायः ४ वादने प्रसिद्धायां भस्म-आरार्तिक्यां सहभागिता अभवत् तथा प्रायः होराद्वयं पूर्ण-श्रद्धाभावेन पूजार्चनाम् अकरोत्। सा नन्दी-सभागृहात् भगवतः महाकालस्य दर्शनं कृत्वा “जय-महाकाल” इति जयघोषान् अकरोत्।
मातुः जन्मदिने आशीर्वादं गृहीतवती
सारा-अर्जुनः प्रथमवारं महाकाल-मन्दिरं प्राप्तवती। सा उक्तवती यत् सा स्वमातुः जन्मदिनस्य अवसरस्य निमित्तं भगवतः महाकालस्य आशीर्वादं ग्रहीतुं आगता अस्ति। दर्शनकाले सा सर्वेषां उत्तम-स्वास्थ्यस्य सुख-समृद्धेश्च कामनाम् अकरोत्। भस्म-आरार्तिक्याः अनन्तरं सारया नन्दी-महाराजस्य कर्णे स्व-मनोकामना उक्ता। ततः गर्भगृहस्य देहल्याः समीपात् जलं समर्प्य भगवतः महाकालस्य आशीर्वादं गृहीतवती। मन्दिर-प्रबन्ध-समित्या तस्याः स्वागतं कृतम्। दर्शनानन्तरं सारया उक्तं यत् महाकालस्य दरबारम् आगत्य तया अत्यन्तं शान्तेः सुखस्य च अनुभवः प्राप्तः। सा मन्दिरस्य व्यवस्थाः अपि प्रशंसितवती।
सारा-अर्जुनस्य भविष्यम्
सारा-अर्जुन अतीव अल्प-वयस्यैव विज्ञापनैः स्व-जीवन-व्यवसायस्य आरम्भं कृतवती। समीपे एव प्रकाशितेन ‘धुरंधर’ नाम्ना चलचित्रेण तया विशेषः परिचयः प्राप्तः। सा हिन्दी-भाषायाः अतिरिक्तं तमिळ्-तेलुगु-मलयाळम्-चलचित्रेषु अपि कार्यं कृतवती।
भस्मारार्तिक्यां दृष्टम् अलौकिकं दृश्यम्
अत्र शनिवासरे प्रातःकाले महाकाल-मन्दिरस्य कपाटाः उद्घाटिताः, ततः विधि-विधानपूर्वकं पूजनं प्रारब्धम्। भस्म-अर्पणात् पूर्वं प्रथम-घण्टा निनाद्य “हरिओम्” इति मन्त्रोच्चारेण जलार्पणं कृतम् तथा मन्त्र-उच्चारणस्य मध्ये भगवतः ध्यानं कृतम्। भगवतः महाकालस्य जलाभिषेकं कृत्वा पञ्चामृतेन (दुग्ध-दधि-घृत-शर्करा-फल-रसैः) अभिषेकः कृतः। कर्पूरारार्तिक्याः अनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य भस्म-लेपनं कृतम्।
ततः भगवतः रजत-मुकुटेन, रुद्राक्ष-मालया, बिल्वपत्रैः सुगन्धित-पुष्पैश्च विशेष-श्रृङ्गारः कृतः। मस्तके त्रिपुण्ड्र-त्रिशूल-डमरु-चिह्नैः अलङ्करणं कृतं, येन भगवतः महाकालस्य राजाधिराज-स्वरूपं प्रकटितम्। कर्पूर-आरार्तिक्याः पश्चात् महानिर्वाणी-अखाडेन भस्मार्पणं कृतम्। मान्यता अस्ति यत् भस्मार्पणानन्तरं भगवान् महाकालः निराकारात् साकार-रूपेण भक्तेभ्यः दर्शनं ददाति।
भक्तिमयं अभवत् वातावरणम्
भस्म-आरार्तिक्याः समये शतशः श्रद्धालवः मन्दिरं प्राप्तवन्तः। “जय-श्री-महाकाल” इति जयघोषैः समग्रं मन्दिर-परिसरं निनादितम्। श्रद्धालवः नन्दी-महाराजस्य कर्णे स्व-मनोकामनाः अपि व्यक्तवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता