Enter your Email Address to subscribe to our newsletters

काठमांडूः, 11 अप्रैलमासः (हि.स.)। नेपाले सम्पन्ने सार्वत्रिकनिर्वाचनानन्तरं संसदः प्रथमाधिवेशने प्रधानमन्त्री बालेन्द्रशाहः किमपि भाषणं न कृतवान्। नेपालस्य संसदः प्रथमाधिवेशनं प्रधानमन्त्रिणः भाषणविना एव शनिवासरे समाप्तम्।
बालेन्द्रशाहस्य नेतृत्वे जेनजी आन्दोलनस्य प्रभावेन सम्पन्ने प्रतिनिधिसभा-निर्वाचने प्रायः द्वितीयांशाधिकबहुमतयुक्ता सरकार निर्मिता। अतः सर्वत्र उत्सुकता आसीत् यत् प्रधानमन्त्री शाहः संसदः प्रथमाधिवेशने किं वदिष्यति।
सामान्यतः निर्वाचनोत्तरं निर्मितः प्रधानमन्त्री संसदं सम्बोध्य सरकारस्य प्राथमिकताः, मूल्याः नीतयश्च प्रकाशयति। यद्यपि एतत् अनिवार्यं नास्ति, तथापि अतीते एषा परम्परा स्थापिताभवत्।
नवनिर्वाचितः प्रधानमन्त्री बालेन्द्रशाहः शनिवासरे समाप्ते प्रथमाधिवेशने स्वयमेव सह देशस्य विभिन्नभागेभ्यः निर्वाचितानां सांसदानां समक्षं सरकारस्य नीति-मूल्यानि प्रस्तोतुं आवश्यकं न मन्यते स्म।
मार्च-मासस्य २७ दिनाङ्के प्रधानमन्त्रिपदे शपथं गृहीत्वा बालेन्द्रशाहः आगामिनां शतदिनानां मध्ये क्रियान्वयनीयानां प्रशासनिकसुधाराणां शतसूत्रीयकार्यक्रमं स्वीकृत्य सार्वजनिकं कृतवान्। अस्मिन् कार्यक्रमे नूतनविधाननिर्माणं, पुरातनविधानसंशोधनं च समाविष्टम्, यत्र संसदः सहयोगः अत्यावश्यकः।
तथापि प्रधानमन्त्री बालेन्द्रशाहः मन्त्रिपरिषदः प्रथमबैठके स्वीकृतं एतत् कार्यसूचिं संसदे अपि न प्रस्तूतवान्, न च औपचारिकरूपेण संसदस्य संज्ञानं नीतवान्। फलतः अन्ये निर्वाचिताः सांसदाः अपि माध्यम-समाचारैः एव सरकारस्य शतदिवसीययोजनां तथा तस्य प्राथमिकताः अवगन्तुं शक्नुवन्।
संसदीयव्यवस्थाया विशेषज्ञाः प्रधानमन्त्रिणः एतादृशं मौनं ‘असामान्यम्’ इति मन्यन्ते। संघीयसंसद् सचिवालयस्य पूर्वमहासचिवः मनोहरप्रसादभट्टराई उक्तवान् यत् सार्वत्रिकनिर्वाचनानन्तरं संसदः प्रथमाधिवेशने प्रधानमन्त्रिणा सम्बोधनं करणीयमिति परम्परा आसीत्। अस्याः परम्परायाः विरुद्धं सम्पूर्णाधिवेशनकाले प्रधानमन्त्रिणः बालेन्द्रशाहस्य मौनं दृष्ट्वा सः आश्चर्यं व्यक्तवान्।
---------------
हिन्दुस्थान समाचार