Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 11 अप्रैलमासः (हि.स.)।
प्रधानमन्त्रिणा नरेन्द्रमोदिना महात्मा ज्योतिराव फुले इत्यस्य जन्मजयन्त्यां तस्मै श्रद्धाञ्जलिः अर्पिता तथा तस्य द्विशततमजन्मोत्सवस्य औपचारिकारम्भः कृतः। प्रधानमन्त्री उक्तवान् यत् महात्मा फुले दूरदर्शी समाजसुधारकः आसीत्, यस्य जीवनं समानता न्याय तथा शिक्षायाः आदर्शान् प्रति समर्पितम् आसीत्।
प्रधानमन्त्री शनिवासरे सामाजिकमाध्यमे एक्स इत्यत्र लिखितवान् यत् महात्मा फुले स्त्रीणां वञ्चितानां च अधिकाराणां दृढसमर्थकः आसीत् तथा शिक्षां सशक्तिकरणस्य सर्वाधिकं प्रभावी साधनम् अकरोत्। अद्यापि तस्य विचाराः समाजस्य प्रगत्यै मार्गदर्शकाः भवन्ति।
प्रधानमन्त्री हिन्दी गुजराती मराठी इत्यादिषु भाषासु पृथक् पृथक् सन्देशेषु उक्तवान् यत् महात्मा ज्योतिराव फुले समानता न्याय तथा शिक्षायाः आदर्शेषु समर्पितः दूरदर्शी समाजसुधारकः आसीत्। सः स्त्रीणां वञ्चितानां च अधिकाराणां समर्थनं कृतवान् तथा शिक्षां सशक्तिकरणस्य साधनम् अकरोत्। अस्मिन् वर्षे वयं तस्य द्विशततमजन्मोत्सवस्य आरम्भं कुर्मः। तस्य विचाराः अस्मान् समाजस्य प्रगत्यै मार्गदर्शयन्तु।
उल्लेखनीयम् अस्ति यत् महात्मा ज्योतिराव फुले लोकप्रियतया महात्मा फुले इति ज्ञायते। सः एकोनविंशतिशतके भारतस्य प्रमुखेषु समाजसुधारकेषु अन्यतमः आसीत्। तेन स्वजीवनं सामाजिक आर्थिक असमानताः निवारयितुं समर्पितम्। तेन १८७३ तमे वर्षे सत्यशोधक समाज इति संस्थाया स्थापना कृता, यस्य उद्देश्यः शोषणनिवारणं तथा भेदभावपीडितानां मुक्तिः आसीत्। सः १८७६ तः १८८२ पर्यन्तं पुणे नगरपालिकायाः सदस्यः आसीत् तथा १८८८ तमे वर्षे दरिद्राणां वञ्चितानां च मुक्तौ तस्य योगदानस्य कारणेन महात्मा तथा भारतस्य बुकर टी वॉशिंगटन इत्यादिभिः उपाधिभिः सम्मानितः।
संसद्भवनपरिसरे स्थापितस्य महात्मा ज्योतिराव फुले इत्यस्य द्वादशफुटप्रमाणस्य कांस्यप्रतिमायाः निर्माणं राम वी सुतार इत्यनेन कृतम् आसीत्। अस्याः अनावरणं ३ दिसम्बर २००३ तमे वर्षे पूर्वप्रधानमन्त्रिणा अटल बिहारी वाजपेयी इत्यनेन कृतम्। सा प्रतिमा अधुना परिसरस्य प्रेरणास्थले स्थिताऽस्ति।
---------------
हिन्दुस्थान समाचार