श्रीभूमि-जनपदस्य मतदानकेन्द्रे शान्तिपूर्णं पुनर्मतदानं सम्पन्नम्
श्रीभूमिः, 11 अप्रैलमासः (हि.स.)। असम-विधानसभा-निर्वाचन-२०२६ इत्यस्य अन्तर्गतं श्रीभूमि-जनपदस्य १२३ उत्तर-करीमगंज-विधानसभा-क्षेत्रस्य अन्तर्गतं मतदानकेन्द्रसङ्ख्या २३९ ''बेबीलैण्ड हाई इंग्लिश स्कूल'' मध्ये शनिवासरे पुनर्मतदानं शान्तिपूर्णरीत्या
Assembly election विधानसभा चुनाव


श्रीभूमिः, 11 अप्रैलमासः (हि.स.)।

असम-विधानसभा-निर्वाचन-२०२६ इत्यस्य अन्तर्गतं श्रीभूमि-जनपदस्य १२३ उत्तर-करीमगंज-विधानसभा-क्षेत्रस्य अन्तर्गतं मतदानकेन्द्रसङ्ख्या २३९ 'बेबीलैण्ड हाई इंग्लिश स्कूल' मध्ये शनिवासरे पुनर्मतदानं शान्तिपूर्णरीत्या सम्पन्नम्। मतदानप्रक्रिया प्रातः ७:०० वादनतः सायङ्काल ५:०० वादनपर्यन्तं प्रचलिता, यस्यां कुल ६१.७७ प्रतिशतं (६१.७७%) मतदातारः स्वमताधिकारस्य प्रयोगं कृतवन्तः।

​उल्लेखनीयं वर्तते यत् पूर्वं केचन असामाजिकतत्वाः उक्तमतदानकेन्द्रे अवैधमप्रवेशं कृत्वा ई.वी.एम्. उपरि अधिकारं कृतवन्तः तथा च बहूनि मतानि अवैधरीत्या दत्तवन्तः, येन मतदानप्रक्रिया बाधिता अभवत्। अस्याः घटनायाः सूचनां निर्वाचन-आयोगाय प्राप्तौ सत्याम् आयोगेन 'जनप्रतिनिधित्व-अधिनियम-१९५१' इत्यस्य धारा ५८ इत्यस्याः अन्तर्गतं पुनर्मतदानस्य आदेशः निर्गतः आसीत्।

​असमस्य मुख्यनिर्वाचन-अधिकारी अनुरागगोयलः पुनर्मतदानस्य शान्तिपूर्ण-सञ्चालनाय मतदातॄणां तथा च सम्बद्धानां सर्वेषां पक्षाणां प्रति आभारं प्रकटितवान्।

​असम-विधानसभा-निर्वाचन-२०२६ मध्ये राज्यस्य कुलमतदानप्रतिशतं ८५.९६ (८५.९६%) अभवत्। तत्रैव, १,१९,४६३ मतदातारः 'डाक-मतपत्र' माध्यमेन मतदानं कृतवन्तः, येषु निर्वाचनकार्ये नियुक्ताः ८३,४५९ कर्मचारिणः, ८५ वर्षात् अधिकवयस्काः २६,६९६ ज्येष्ठाः नागरिकाः, ८,६१४ दिव्यांगमतदातारः तथा च आवश्यकसेवासु संलग्नाः ६९४ मतदातारः सम्मिलिताः सन्ति।

हिन्दुस्थान समाचार