राजनाथसिंहेन एलडीए-संस्थायाः ५८२७.९ लक्ष-रूप्यक-मूल्यस्य परियोजनानां लोकार्पणं कृतम्
लखनऊ-नगरम्, ११ अप्रैलमासः (हि.स.)। रक्षामन्त्री राजनाथसिंह: शनिवासरे गोमती-नगरस्य विवेक-खण्डे आयोजिते ‘गोमतीनगर-जनकल्याण-महासमिति-वार्षिकोत्सवे’ लखनऊ-विकास-प्राधिकरण-द्वारा निर्मितेन संग्रहालयेन सह ५८२७.९ लक्ष-रूप्यक-मूल्यस्य परियोजनानां लोकार्पणं
परियोजनाओं का लोकार्पण करते राजनाथ सिंह


कार्यक्रम को संबोधित करते राजनाथ सिंह


लखनऊ-नगरम्, ११ अप्रैलमासः (हि.स.)। रक्षामन्त्री राजनाथसिंह: शनिवासरे गोमती-नगरस्य विवेक-खण्डे आयोजिते ‘गोमतीनगर-जनकल्याण-महासमिति-वार्षिकोत्सवे’ लखनऊ-विकास-प्राधिकरण-द्वारा निर्मितेन संग्रहालयेन सह ५८२७.९ लक्ष-रूप्यक-मूल्यस्य परियोजनानां लोकार्पणं कृतवान्।

चौक-क्षेत्रस्य हुसैनाबादे ४९७३ वर्गमीटर-परिमिते क्षेत्रे निर्मिते अस्मिन् संग्रहालये अवध-प्रदेशस्य संस्कृतेः संगमः द्रष्टुं शक्यते। एलडीए-उपाध्यक्षः प्रथमेश-कुमारः अवदत् यत् अस्य निर्माणं ४१४३.२२ लक्ष-रूप्यकैः कृतम्। एषा प्रदेशस्य प्रथमा ऐकॉनिक-भवनरचना अस्ति, यत्र किमपि स्तम्भ-आधारं विना ४५ मीटर-दीर्घः कैण्टिलीवर-भागः निर्मितः अस्ति। भवनस्य आकर्षका रूपरेखा अस्य विशेषतां वर्धयति।

अस्मिन् संग्रहालये अवधस्य ऐतिहासिक-साहित्यिक-सांस्कृतिक-परम्परा आधुनिक-प्रौद्योगिक्या सह प्रदर्श्यते। अत्र ‘मूलधारा’, ‘हुनरस्य सफरः’, ‘हस्तशिल्पम्’, ‘सांझी-आस्था’, ‘गङ्गा-जमुनी-तहजीब’, ‘कारीगरी’, ‘महफिल-ए-अवध’, ‘नृत्यकला’, ‘नाट्यशाला’, ‘सोच-सम्वादः’, ‘जायका-ए-अवध’ इत्यादीनि विविधानि प्रदर्शिनी-गृहाणि विकसितानि सन्ति।

एताभिः प्रदर्शनीभिः अवध-संस्कृतेः सजीव-प्रदर्शनस्य प्रयासः कृतः अस्ति। अत्र वीआर-गेमिंग-अखाडा अपि निर्मिता अस्ति, यः दर्शकेभ्यः इतिहासेन सह नूतनानुभवं दास्यति।

नगरस्य पर्यटन-विकासस्य उद्देश्येन अस्य संग्रहालयस्य निर्माणं कृतम्। एषः संग्रहालयः लखनऊ-नगरस्य समृद्ध-परम्परां, कलां, शिल्प-परम्परां च संरक्ष्य नूतन-वंशेन सह सम्बद्धं करिष्यति। स्थानीय-कारीगराणां हस्तशिल्पस्य च प्रोत्साहनं कृत्वा क्षेत्रीय-अर्थव्यवस्थां सुदृढां करिष्यति। उपाध्यक्षेन उक्तं यत् संग्रहालयः प्रातः १० वादनेभ्यः रात्रौ ८ वादनपर्यन्तं उद्घाटितः भविष्यति। प्रवेश-शुल्कं बालकानां कृते ५० रूप्यकाणि, वयस्कानां कृते १०० रूप्यकाणि निर्धारितम्।

नागरिकेभ्यः लक्ष्मण-मण्डपस्य अपि उपहारः प्रदत्तः। एलडीए द्वारा एचएएल-संस्थायाः सीएसआर-निधेः साहाय्येन गोमती-नगरस्य विवेक-खण्डे ५३९.१३ लक्ष-रूप्यकैः २३५८ वर्गमीटर-परिमिते क्षेत्रे लक्ष्मण-मण्डपः निर्मितः। गणेशगञ्ज-स्थिते प्राचीन-आरटीओ-परिसरे ५६२.३२ लक्ष-रूप्यकैः ९३० वर्गमीटर-परिमिते क्षेत्रे अपरः लक्ष्मण-मण्डपः तथा ऐशबाग-स्थिते सुदर्शनपुरी-क्षेत्रे १३२.५२ लक्ष-रूप्यकैः ६६२ वर्गमीटर-परिमिते क्षेत्रे सामुदायिक-केन्द्रं निर्मितम्। एतेषु केन्द्रेषु सभागृहं, कक्षाः, भोजनालयः, योग-केन्द्रं, पुस्तकालयः, चिकित्सालयः, फिजियोथेरेपी-केन्द्रं, भण्डार-गृहं च उपलब्धम्। रक्षामन्त्रिणा त्रीणि अपि केन्द्राणि उद्घाट्य जनतायै समर्पितानि।

गोमती-नगरस्य विनीत-खण्डे एलडीए-द्वारा ३८२.४५ लक्ष-रूप्यकैः ‘देव-वन-नक्षत्र-वाटिका’ विकसिताऽस्ति। अष्ट-एकर-परिमिते क्षेत्रे विस्तीर्णे अस्मिन् उद्याने द्वादश-राशि-नक्षत्राणां प्रतीक-वनस्पतयः रोपिताः सन्ति। जनसुविधायै पथमार्गाः, योग-स्थलानि, आसन्दाः च विन्यस्ताः सन्ति। अपरं विनीत-खण्डे ६८.२६ लक्ष-रूप्यकैः ई-पुस्तकालयस्य अपि निर्माणं कृतम्, यस्य उद्घाटनं रक्षामन्त्रिणा कृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता