उत्तर करीमगंज विधानसभा क्षेत्रस्य 239 संख्यके मतदान केंद्रे पुनर्मतदानम्
श्रीभूमिः (असमः), 11 अप्रैलमासः (हि.स.)। उत्तर करीमगञ्ज-विधानसभा-क्षेत्रस्य २३९-सङ्ख्यक-मतदानकेन्द्रे शनिवासरे पुनर्मतदानं क्रियते। पूर्वं ९ अप्रैल-दिने सम्पन्नं मतदानं अनियमिततायाः आरोपात् निरस्तं कृतम् आसीत्। अद्य प्रातः ७ वादने बेबीलैंड इंग्ल
Assembly election विधानसभा चुनाव


श्रीभूमिः (असमः), 11 अप्रैलमासः (हि.स.)।

उत्तर करीमगञ्ज-विधानसभा-क्षेत्रस्य २३९-सङ्ख्यक-मतदानकेन्द्रे शनिवासरे पुनर्मतदानं क्रियते। पूर्वं ९ अप्रैल-दिने सम्पन्नं मतदानं अनियमिततायाः आरोपात् निरस्तं कृतम् आसीत्।

अद्य प्रातः ७ वादने बेबीलैंड इंग्लिश हाई स्कूल इति विद्यालये मतदान-प्रक्रिया आरब्धा, यत्र मतदातारः स्वमताधिकारं उपयुञ्जते।

मतदानकेन्द्रे शान्तिपूर्णं निष्पक्षं च निर्वाचनं सुनिश्चितुं आवश्यकाः सुरक्षा-व्यवस्थाः कृताः सन्ति।

निर्वाचन-आयोगेन अनियमिततायाः शिकायतां प्राप्य ९ अप्रैल-दिनस्य मतदानं निरस्तं कृत्वा निष्पक्ष-मतदानस्य सुनिश्चित्यर्थं पुनर्मतदानस्य आदेशः दत्तः।

हिन्दुस्थान समाचार