चारधाम यात्रा 2026: 14.5 लक्षात् अधिकं पंजीकरणं, केदारनाथ धाम सर्वतोऽग्रे
देहरादूनम्, 11 अप्रैलमासः (हि.स.)। उत्तराखण्डे आगामिन्यां चारधाम-यात्रा 2026 सम्बन्धे श्रद्धालूनां मध्ये महान् उत्साहः दृश्यते। चारधाम तथा हेमकुण्ड साहिब यात्रायाः कृते अद्यावधि कुलं १४,५४,८९७ श्रद्धालवः पंजीकरणं कृतवन्तः। एतेषु केदारनाथधामाय सर्वा
केदारनाथ मंदिर।


देहरादूनम्, 11 अप्रैलमासः (हि.स.)। उत्तराखण्डे आगामिन्यां चारधाम-यात्रा 2026 सम्बन्धे श्रद्धालूनां मध्ये महान् उत्साहः दृश्यते। चारधाम तथा हेमकुण्ड साहिब यात्रायाः कृते अद्यावधि कुलं १४,५४,८९७ श्रद्धालवः पंजीकरणं कृतवन्तः। एतेषु केदारनाथधामाय सर्वाधिकं पंजीकरणं अभिलेखितम्।

पर्यटन-विभागस्य अनुसारं शुक्रवासरे सायं पञ्चवादनपर्यन्तं केदारनाथधामाय ४,९५,१७३ श्रद्धालवः पंजीकरणं कृतवन्तः। ततः अनन्तरं बद्रीनाथधामाय ४,२९,४१६, गङ्गोत्रीधामाय २,६२,४८५ तथा यमुनोत्रीधामाय २,५५,६०९ पंजीकरणानि अभिलेखितानि। हेमकुण्ड साहिब यात्रायै तु अद्यावधि १२,२१४ श्रद्धालवः पंजीकरणं कृतवन्तः।

राज्यस्य विभिन्नेषु ऑफलाइन-पंजीकरण-केन्द्रेषु हरिद्वार, ऋषिकेश, नयाग्राम, हर्बर्टपुर तथा ऋषिकेश-ट्रान्जिट-कैम्प इत्येषु अद्य किञ्चित् नूतनं पंजीकरणं न अभवत्। तथापि, ऑफलाइन-पंजीकरणं १७ एप्रिल् आरभ्य भविष्यति, यदा तु ऑनलाइन-पंजीकरणं ६ मार्चतः निरन्तरं प्रचलति।

यात्रा-कार्यक्रमानुसारं गङ्गोत्री तथा यमुनोत्रीधाम्नः कपाटौ १९ एप्रिल् दिवसे उद्घाटितौ भविष्यतः। ततः अनन्तरं केदारनाथधामस्य कपाटः २२ एप्रिल् उद्घाटितः भविष्यति, तथा बद्रीनाथधामस्य कपाटः २३ एप्रिल् दिवसे श्रद्धालूनां दर्शनार्थं उद्घाट्यते।

राज्य-सरकारः तथा पर्यटन-विभागः यात्राया व्यवस्थाः सुचारु, सुरक्षिताः तथा श्रद्धालु-अनुकूलाः कर्तुं सज्जाः सन्ति। यात्रा-मार्गाः, स्वास्थ्य-सेवाः, सुरक्षा-व्यवस्था तथा पंजीकरण-प्रणाली सुदृढीक्रियन्ते, येन देश-विदेशेभ्यः आगच्छन्तः श्रद्धालवः उत्तमान् सुविधाः प्राप्नुयुः।

श्रद्धालवः आधिकारिक-जालपुटे registrationandtouristcare.uk.gov.in, “Tourist Care Uttarakhand” मोबाइल-अनुप्रयोगे तथा हेल्पलाइन-संख्या १३६४ एवं ०१३५-३५२०१०० इत्येतयोः माध्यमेन पंजीकरणं कर्तुं शक्नुवन्ति। तथा च आईआरसीटीसी-अधिकृत-जालपुटस्य माध्यमेन केदारनाथ तथा हेमकुण्ड साहिब यात्रायाः कृते उदग्रविमान-सेवा-चिटिकायाः आरक्षणमपि क्रियते।

हिन्दुस्थान समाचार