युवानः देशस्य वर्तमानं भविष्यं च : मुख्यमंत्री धामी
देहरादूनम्, 11 अप्रैलमासः (हि.स.)। मुख्यमंत्री पुष्कर सिंह धामी युवान् राष्ट्रनिर्माणस्य मुख्यशक्तिं निर्दिशन् उक्तवान् यत् युवानः केवलं देशस्य भविष्यं न, अपि तु वर्तमानमपि सन्ति। तेषाम् ऊर्जा संकल्पः नवोन्मेषशीलता च भारतस्य विकासस्य दिशां निर्धारय
मुख्यमंत्री पुष्कर सिंह धामी कार्यक्रम को संबोधित करते हुए।


देहरादूनम्, 11 अप्रैलमासः (हि.स.)। मुख्यमंत्री पुष्कर सिंह धामी युवान् राष्ट्रनिर्माणस्य मुख्यशक्तिं निर्दिशन् उक्तवान् यत् युवानः केवलं देशस्य भविष्यं न, अपि तु वर्तमानमपि सन्ति। तेषाम् ऊर्जा संकल्पः नवोन्मेषशीलता च भारतस्य विकासस्य दिशां निर्धारयन्ति। सः शनिवासरे डीएवी पीजी महाविद्यालये आयोजिते छात्रसंघसमारोहे छात्रछात्रान् सम्बोधितवान्।

अस्मिन् अवसरे मुख्यमंत्री छात्राणां उज्ज्वलभविष्यस्य कामनां कृत्वा छात्रराजनीतिं नेतृत्वविकासस्य संगठनक्षमतायाः सामाजिकउत्तरदायित्वस्य च सशक्तं माध्यमम् उक्तवान्। तेन अखिलभारतीयविद्यार्थीपरिषदादीनां संगठनानां भूमिकायाः उल्लेखः कृतः, यतः एतेन युवेषु राष्ट्रसेवा चरित्रनिर्माणं सामाजिकचेतना च विकसिताः भवन्ति। स्वामी दयानन्दसरस्वत्याः आदर्शान् स्मृत्वा शिक्षां चरित्रनिर्माणेन राष्ट्रनिर्माणेन च सम्बद्धाम् उक्तवान्।

मुख्यमंत्री उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदीस्य नेतृत्वे ‘मेक इन इंडिया’, ‘डिजिटल इंडिया’, ‘स्टार्टअप इंडिया’, ‘स्किल इंडिया’ इत्यादयः योजनाः युवान् आत्मनिर्भरान् कुर्वन्ति। राज्यसर्वकार अपि उत्तराखण्डं शिक्षाया नवोन्मेषस्य च क्षेत्रे अग्रणीकर्तुं प्रतिबद्धा अस्ति। नूतनशिक्षानीत्याः अन्तर्गतं कृत्रिमबुद्धिमत्ता यन्त्रअधिगमः च इत्यादीनां आधुनिकपाठ्यक्रमाणां प्रोत्साहनं क्रियते।

तेन उक्तं यत् राज्ये नव महाविद्यालयानां स्थापना विंशति मॉडलमहाविद्यालयानां निर्माणं महिला छात्रावासानाम् आईटी प्रयोगशालानां परीक्षा भवनानां च निर्माणं क्रियते। शिक्षकेषु न्यूनतां निवारयितुं नियुक्तयः अपि क्रियन्ते। मुख्यमंत्री उक्तवान् यत् युवानां हितरक्षणाय राज्ये कठोरं नकलविरोधी विधि लागू कृतः, यस्य सकारात्मकपरिणामाः दृश्यन्ते। गतचतुर्षु वर्षेषु त्रिंशत्सहस्राधिकाः युवानः सरकारीनौकर्यः प्राप्तवन्तः।

अस्मिन् अवसरे मुख्यमंत्री डीएवी पीजी महाविद्यालयस्य अटल बिहारी वाजपेयी स्मृति शैक्षणिक भवनस्य छतौ द्वयोः अतिरिक्ततलयोः निर्माणस्य घोषणां कृतवान्। कार्यक्रमे कैबिनेटमन्त्री खजानदासः रामसिंहकैड़ा विधायक उमेशकुमारः च सहिताः अनेके जनप्रतिनिधयः छात्रच्छात्राश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार