भाजपा वाराणसी महानगर अध्यक्षाय प्रदीपाय जन्मदिनस्य अमिलत् शुभकामनाः
वाराणसी, 11 अप्रैलमासः(हि.स.)। उत्तर प्रदेशस्य वाराणसी जनपदे शनिवासरे भारतीय जनतादलस्य (भाजपा) महानगराध्यक्षः प्रदीप अग्रहरि जन्मदिने अवसरम् उपलक्ष्य कार्यकर्तृभिः, पदाधिकाऱिभिः, जनप्रतिनिधिभिश्च बहुभिः शुभाशयाः प्रदत्ताः। अपि च बहवः भाजपा कार्यक
महानगर अध्यक्ष प्रदीप के साथ सेल्फी लेता भाजपा कार्यकर्ता


वाराणसी, 11 अप्रैलमासः(हि.स.)।

उत्तर प्रदेशस्य वाराणसी जनपदे शनिवासरे भारतीय जनतादलस्य (भाजपा) महानगराध्यक्षः प्रदीप अग्रहरि जन्मदिने अवसरम् उपलक्ष्य कार्यकर्तृभिः, पदाधिकाऱिभिः, जनप्रतिनिधिभिश्च बहुभिः शुभाशयाः प्रदत्ताः। अपि च बहवः भाजपा कार्यकर्तारः सामाजिकमाध्यमेषु महानगराध्यक्षस्य चित्रेण सह शुभकामनाः अपि प्रदत्तवन्तः।

जन्मदिने प्राप्ताभ्यः शुभाशिषां अनन्तरं महानगराध्यक्षः प्रदीप अग्रहरिः अवदत् यत् भाजपा एकं कुटुम्बम् अस्ति तथा कार्यकर्तारः मम कुटुम्बस्य सदस्याः सन्ति। तेषां शुभाशयाः मम कृते अत्यन्तं महत्त्वपूर्णाः सन्ति। अहं सर्वेषां कार्यकर्तॄणां पदाधिकाऱिणां च हृदयतः धन्यवादं ददामि।

भाजपाया महानगराध्यक्षाय प्रदीप अग्रहरये जन्मदिनशुभकामनाः येभ्यः जनप्रतिनिधिभ्यः प्रदत्ताः तेषु मंत्री स्वतन्त्रप्रभारः रविंद्र जायसवाल, विधायकः डॉ नीलकंठ तिवारी, विधायकः सौरभ श्रीवास्तव, महापौरः अशोक तिवारी तथा नगरनिगमस्य पार्षदगणाः मुख्यतया आसन्।

---------------

हिन्दुस्थान समाचार