Enter your Email Address to subscribe to our newsletters

- महापौरः अस्सीतटात् शुभारम्भं कृतवान्, प्रथमचरणे अस्सी-दशाश्वमेधतटौ चयनितौ
वाराणसी, 11 अप्रैलमासः (हि.स.)।उत्तरप्रदेशस्य सांस्कृतिक-आध्यात्मिकपुर्यां वाराणस्यां (काश्यां) गङ्गातटानां भ्रमणार्थं आगच्छन्तः श्रद्धालवः नि:शुल्क-वाइफाइ-सुविधां प्राप्स्यन्ति। शनिवासरे महापौरः अशोक तिवारी अस्सीतटे आयोजितसमारोहे अस्याः सेवायाः शुभारम्भं कृतवान्।
तटे नि:शुल्क-वाइफाइ-सेवायाः विधिवत् लोकार्पणं कृत्वा महापौरः अवदत् यत् प्रथमचरणे अस्याः परियोजनायाः अन्तर्गतं अस्सी-दशाश्वमेधतटौ 'हाई-स्पीड्' (उच्चगति) अन्तर्जालसुविधया सह योजितौ। सः सूचितवान् यत् एषा सुविधा नगरं आधुनिकं 'स्मार्ट् सिटी' इति निर्मातुं सङ्कल्पस्य भागः वर्तते। अस्याः नि:शुल्क-वाइफाइ-सेवायाः आरम्भः अस्सीतटात् क्रियते, यस्याः लाभः दशाश्वमेधतटे अपि प्राप्तुं शक्यते। वर्तमानसमये अन्तर्जालम् एका आधारभूता आवश्यकता अस्ति। तटेषु आगच्छन्तः युवकाः, शोधार्थिनः पर्यटकाश्च अधुना सम्पर्कतन्त्रात् वञ्चिताः न भविष्यन्ति। एषा डिजिटल्-पहलः सूचनानां विनिमयं सुगमं कर्तुं सहैव नगरनिगमस्य सेवाः अपि जनसामान्यस्य समीपम् आनेष्यति। महापौरः उक्तवान् यत् तटेषु 'फ्री वाइफाइ जोन्' इति फलकानि स्थापितानि सन्ति। नागरिकाः तत्र दत्तं क्यूआर कोड स्कैन् (वीक्षणं) कृत्वा सुलभतया अन्तर्जालसेवायाः लाभं ग्रहीतुं शक्नुवन्ति। उपसभापतिः नरसिंह दासः अवदत् यत् वर्तमानकालः पूर्णतया 'डिजिटल्-क्रान्ति' कालः अस्ति, यः अस्माकं जीवनस्य प्रत्येकं पक्षं प्रभावयति। नि:शुल्क-वाइफाइ-सुविधायाः उद्देश्यं सामान्यनागरिकान् अङ्कीय-तन्त्रज्ञाने सशक्तिकर्तुं वर्तते।
क्यूआर-कोडद्वारा प्राप्स्यते सुविधा
बीएसएनएल इत्यस्य प्रधानमहाप्रबन्धकः अनिल कुमार गुप्तः अवदत् यत् जालतन्त्रस्य गत्याः व्याप्तेः च विशेषध्यानं दत्तं, येन जनसम्मर्दकाले अपि सुचारुरूपेण सम्पर्कतन्त्रं स्थिरा भवेत्। अस्मिन् अवसरे पार्षदः राजेशकुमारयादवः 'चल्लू', पार्षदः विजयद्विवेदी, अमितसिंहः, रविन्द्रकुमारसिंहः, माधुरीसिंहः इत्यादयः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार