Enter your Email Address to subscribe to our newsletters

तेहरानम्, 11 अप्रैलमासः (हि.स.)।
पश्चिम-एशिया-प्रदेशे प्रायः षट्-सप्ताह-पर्यन्तं प्रचलितस्य भीषण-सैन्य-संघर्षस्य तनावस्य च अनन्तरं शनिवासरे इस्लामाबाद नगरे भविष्यति शान्तिवार्ता सर्वेषां दृष्टिं आकर्षयति। एकादश-वर्षाणां अनन्तरम् एषः प्रथमे अवसरे अस्ति यदा ईरान तथा अमेरिका देशौ प्रत्यक्षतया वार्तामेजे उपविशतः। अस्याः वार्तायाः कृते उभयोः देशयोः प्रतिनिधयः इस्लामाबादं प्राप्तवन्तः।
पश्चिम-एशियायां प्रचुर-तनावस्य, होर्मुज जलडमरूमध्य उपरि नियन्त्रणस्य, इजराइल-हिज्बुल्ला संघर्षस्य च मध्ये अद्य इस्लामाबादे अमेरिका-ईरानयोः मध्ये शान्तिवार्ता भविष्यति। अस्यां वार्तायाम् अमेरिकी-प्रतिनिधिमण्डले जेडी वेंस, विशेष-दूतः स्टीव विटकॉफ, तथा जेरेड कुशनर (डोनाल्ड ट्रंप इत्यस्य जामाता) इस्लामाबादं प्राप्तवन्तः।
माध्यम-संस्थायाः ईरान इंटरनेशनल अनुसारम्, मोहम्मद बाघेर घालीबाफ नेतृत्वे ईरानी-प्रतिनिधिमण्डलम् अपि वार्तार्थम् इस्लामाबादं प्राप्तम्। अस्मिन् मण्डले विदेश-मन्त्री अब्बास अराघची, रक्षा-परिषदः सचिवः अली अकबर अहमदियन, केन्द्रीय-बैंकवित्तस्य गवर्नरः अब्दोलनासर हेममती च सन्ति। संसदः अपि बहवः सदस्याः अस्य प्रतिनिधिमण्डलस्य अंशाः सन्ति।
अस्यां परिस्थितौ, अमेरिकी-राष्ट्रपतिः डोनाल्ड ट्रंप वार्ता-प्रारम्भात् पूर्वमेव चेतावनीम् उक्तवान् यत् यदि समझौतः न भवेत् तर्हि सैन्य-कार्यवाही सम्भवति, यदा ईरान अपि स्वकीयानि अनेकानि शतं स्थापितवान्।
---------------
हिन्दुस्थान समाचार