हरिद्वारे परिवहन विभागस्य उत्कृष्ट प्रदर्शनं, वित्तीय वर्षे 2025-26 निर्मितं नूतनं कीर्तिमानम्
हरिद्वारम्, 11 अप्रैलमासः (हि.स.)। परिवहनमन्त्री प्रदीप बत्रा इत्यस्य गृहजनपदे हरिद्वार परिवहनविभागेन वित्तीयवर्षे २०२५–२६ मध्ये प्रवर्तन तथा प्रशासनिककार्येषु अभूतपूर्वा सफलता प्राप्ता, येन नूतनः कीर्तिमानः स्थापितः। जिलाधिकारी मयूर दीक्षितस्य न
हरिद्वारे परिवहन विभागस्य उत्कृष्ट प्रदर्शनं, वित्तीय वर्षे 2025-26 निर्मितं नूतनं कीर्तिमानम्


हरिद्वारम्, 11 अप्रैलमासः (हि.स.)।

परिवहनमन्त्री प्रदीप बत्रा इत्यस्य गृहजनपदे हरिद्वार परिवहनविभागेन वित्तीयवर्षे २०२५–२६ मध्ये प्रवर्तन तथा प्रशासनिककार्येषु अभूतपूर्वा सफलता प्राप्ता, येन नूतनः कीर्तिमानः स्थापितः। जिलाधिकारी मयूर दीक्षितस्य नेतृत्वे तथा वरिष्ठाधिकारिणां प्रभावीमार्गदर्शने विभागेन लक्ष्याधिकाः उपलब्धयः अर्जिताः।

प्राप्तसूचनानुसारं हरिद्वार तथा रुड़की स्थितयोः एआरटीओ कार्यालययोः प्रवर्तनकार्यवाही सुदृढा, परिणाममुखी तथा तकनीकीदृष्ट्या सक्षम कृत्वा उल्लेखनीया सफलता प्राप्ता। हरिद्वार एआरटीओ कार्यालयेन वर्षे २०२५–२६ मध्ये कुलं ३५,९८६ चालानानि कृतानि, यत् निर्धारितलक्ष्यस्य १०९.०५ प्रतिशतं वर्तते। रुड़की एआरटीओ कार्यालयेन अपि ३३,५३१ चालानानि कृतानि, यत् लक्ष्यस्य १०७.४७ प्रतिशतं सिद्धिः अस्ति। एवं समग्रे जनपदे प्रायः ६९,५०० चालानानि कृतानि, यत् गतवर्षस्य अपेक्षया उल्लेखनीयवृद्धिं दर्शयति।

वाहनानां विरुद्धं कठोरकार्यवाही कृत्वा हरिद्वार एआरटीओ कार्यालयेन २,३०१ वाहनानि सीज् कृतानि, रुड़की एआरटीओ कार्यालयेन २,३७७ वाहनानि सीज् कृतानि। अस्य अभियानस्य प्रभावेन अवैध तथा नियमविरुद्धसञ्चालनस्य प्रभावी नियन्त्रणं जातम्।

राजस्वसंग्रहक्षेत्रे अपि विभागेन उत्कृष्टं प्रदर्शनं कृतम्। हरिद्वार एआरटीओ द्वारा प्रायः ५२९.७७ लक्षरूप्यकाणां वसूली कृता, रुड़की एआरटीओ द्वारा प्रायः ६८०.८२ लक्षरूप्यकाणां वसूली कृता। एवं समग्रे जनपदे १२ कोट्यधिकं राजस्वं प्राप्तम्, यत् विभागस्य कार्यकुशलतां सुदृढवसूलीतन्त्रं च दर्शयति।

प्रवर्तनकार्यवाहीं आधुनिकां पारदर्शिनीं च कर्तुं ई-चालानप्रणाल्याः प्रभावी क्रियान्वयनं कृतम्। अनेन चालानानां शीघ्रनिस्तारणं, न्यायालये समये प्रेषणं तथा दण्डवसूलीप्रक्रिया अधिका सुगमा पारदर्शिनी च जाता।

अस्यां सफलतायाम् एआरटीओ (प्रवर्तन) हरिद्वार नेहा झा तथा एआरटीओ (प्रवर्तन) रुड़की कृष्णपलारिया महत्त्वपूर्णां भूमिकां निर्वहन्तौ। तयोः नेतृत्वे सततनिगरानी, रणनीतिकयोजना तथा दलप्रबन्धनेन उल्लेखनीयाः परिणामाः प्राप्ताः।

प्रशासनिकस्तरे अपि जनपदे उत्कृष्टं प्रदर्शनं जातम्। एआरटीओ (प्रशासन) हरिद्वार निखिलशर्मा तथा एआरटीओ (प्रशासन) रुड़की जितेन्द्रचन्द द्वारा करवसूली तथा प्रशासनिकसुधारेषु महत्त्वपूर्णं योगदानं दत्तम्। देहरादून स्थितस्य आरटीओ (प्रशासन) सन्दीपसैनीस्य मार्गदर्शनेन प्रायः ९५ प्रतिशतं करलक्ष्यं प्राप्तम् तथा गतवर्षस्य अपेक्षया प्रायः १२ प्रतिशतवृद्धिः अभवत्।

अतिरिक्ततया कार्यालयेषु टोकनप्रणाली स्थापिता, येन सामान्यजनानां कृते पारदर्शी सुलभसेवा प्रदत्ता। हरिद्वार उपक्षेत्रे ई-रिक्शासञ्चालनार्थं मानकसञ्चालनप्रक्रिया अपि लागू कृता, येन यातायातव्यवस्था सुव्यवस्था जाता। एतानि प्रयासाः राज्यस्तरे अपि उत्कृष्टप्रयोगरूपेण प्रतिष्ठां प्राप्नुवन्ति।

समग्रतया वित्तीयवर्षे २०२५–२६ मध्ये हरिद्वारस्य परिवहनविभागः प्रवर्तन, राजस्व तथा प्रशासनिकसुधारक्षेत्रेषु आदर्शमोडेलरूपेण प्रकटितः। विभागेन स्पष्टं कृतं यत् भविष्ये अपि एवं प्रकारेण कठोरं पारदर्शि जनहितकारी च कार्यं निरन्तरं प्रवर्तिष्यते।

हिन्दुस्थान समाचार