भारतीय-जनता-पक्षेण ज्योतिराव फुले-महात्मनः जयन्ती समारोहपूर्वकं आचरिता
पटना-नगरम्, ११ अप्रैलमासः (हि.स.)। भारतीय जनता पार्टी-दलस्य बिहार-प्रदेश-कार्यालये अद्य ज्योतिराव फुले-महात्मनः जयन्ती समारोहपूर्वकं आचरिता। तस्य चित्रे पुष्पाञ्जलिः अर्पिता तथा तेन निर्दिष्टेषु आदर्शेषु चरितुं संकल्पः कृतः।अस्मिन् अवसरॆ उपमुख्यमन्
भाजपा ने मनाई महात्मा ज्योतिबा फुले जयंती


पटना-नगरम्, ११ अप्रैलमासः (हि.स.)। भारतीय जनता पार्टी-दलस्य बिहार-प्रदेश-कार्यालये अद्य ज्योतिराव फुले-महात्मनः जयन्ती समारोहपूर्वकं आचरिता। तस्य चित्रे पुष्पाञ्जलिः अर्पिता तथा तेन निर्दिष्टेषु आदर्शेषु चरितुं संकल्पः कृतः।अस्मिन् अवसरॆ उपमुख्यमन्त्री विजयकुमार: सिन्हा, मन्त्री दिलीप जायसवाल, रामकृपालयादव: इत्यादयः नेतारः तथा अन्ये पदाधिकारी-कार्यकर्तारः च उपस्थिताः सन्तः महात्मानं नत्वा तस्मै श्रद्धाञ्जलिं समर्पितवन्तः।

कार्यक्रमे भाषमाणः उपमुख्यमन्त्री विजय-कुमार-सिन्हा अवदत् यत् फुले-महात्मा सामाजिक-न्यायस्य, समतायाः, नारी-शिक्षायाः च महान् अग्रदूतः आसीत्। तेन समाजे जागरूकता तथा अधिकार-चेतना जागृता। तस्य विचाराः अद्यापि समतामूलक-शिक्षित-सशक्त-समाज-निर्माणाय प्रेरणां ददति।

अन्ये नेतारः अपि उक्तवन्तः यत् फुले-महात्मा दलित-नारी-उद्धाराय निरन्तरं यत्नं कृतवान्, जाति-व्यवस्थायाः तथा बाल-विवाहस्य च विरोधं कृतवान्। तस्य जयन्ती ‘सेवा-कल्याण-दिवस’ इव आचरणीया इति मतं व्यक्तम्।

कार्यक्रमे बहवः नेतारः, कार्यकर्तारः, जनाः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता