Enter your Email Address to subscribe to our newsletters


बहराइच-जनपदः, १२ अप्रैलमासः (हि.स.)। संविधान-शिल्पिनः भारत-रत्न-समलङ्कृतस्य डॉ.भीमराव-रामजी-अम्बेडकरस्य जन्म-जयंती-उपलक्ष्ये राष्ट्रीय-स्वयंसेवक-सङ्घस्य तत्वावधाने रविवासरे उत्तरप्रदेशस्य बहराइच-जनपदे पथ-सञ्चलनम् आयोजितम्। अस्मिन् अवसरे मुख्य-वक्ता पूर्व-उत्तरप्रदेश-क्षेत्रस्य क्षेत्र-प्रचार-प्रमुखः सुभाषः स्वयंसेवकान् सम्बोधितवान्।
तेन उक्तं यत् बाबा-साहब-भीमराव-अम्बेडकरः संविधान-निर्माणे महतीं भूमिकां निर्वहति स्म। यदा बन्धुता जीवति तदा स्वतन्त्रता-सामर्थ्यादयः स्वयमेव सुदृढाः भवन्ति। भारतीय-संस्कृतेः एव मानवस्य कल्याणं भवति, अतः सर्वेषां अन्तः बन्धुता जीविता भवेत्।सः अवदत् यत् वयं सर्वे विक्रम-संवत् २०८३ तमे वर्षे प्रविष्टाः स्म। ‘प्रतिपदा’ इत्यस्य अर्थः निरन्तरं प्रगमनम् इति अस्ति, एतदेव भारतीय-संस्कृतिः शिक्षयति। अस्माकं परम्परायां मासानां नामकरणं न कस्यचित् राज्ञः नाम्ना, अपि तु नक्षत्राधारितम् अस्ति।
सः अपि अवदत् यत् दुर्बलस्य वचनं जगति न श्रूयते, अतः अस्माभिः सबलैः एकतया च भवितव्यम्। अनेके महापुरुषाः संघटन-शक्त्या एव देशस्य रक्षणं कृतवन्तः। कलियुगे संघटनमेव शक्तेः आधारः अस्ति। “वसुधैव कुटुम्बकम्” इति भावनया सर्वेः सह गन्तव्यम्।
तेन उक्तं यत् मर्यादा-पुरुषोत्तमः श्रीरामः, षोडश-कलासम्पन्नः श्रीकृष्णः, लोक-कल्याणार्थं विषं पीतवान् महादेवः, मातृ-शक्तेः सम्मानार्थं लङ्कां लङ्घितवान् महाबली-हनुमान्— एते सर्वे अस्माकं आदर्शाः सन्ति। समाजस्य स्थितिं दृष्ट्वा सङ्घ-स्थापकः डॉ.हेडगेवारः सङ्घस्य स्थापनाम् अकरोत्।
सः अवदत् यत् डॉ.हेडगेवारः जन्मतः देशभक्तः आसीत्, सः देशस्य स्वतन्त्रतायै निरन्तरं कार्यं कृतवान्। तेन उक्तं यत् देश-समाज-धर्म-संस्कृतेः कृते जीवनं यापनं करणीयम्। तस्य चिन्तनं सदा सकारात्मकम् आसीत्। सङ्घः शाखा-प्रणाल्या सद्गुणयुक्त-स्वयंसेवक-निर्माणे प्रवृत्तः अस्ति, यत् जीवन-शैलीं अपि शिक्षयति।
पथ-सञ्चलनम् महाराज-सिंह-इण्टर-महाविद्यालयात् द्वाभ्यां मार्गाभ्यां समकालं निष्कासितम्। द्वे दले विभिन्न-पथैः नगरस्य प्रमुख-स्थलानि परिभ्रम्य पुनः तत्रैव प्रत्यागच्छताम्। अस्य कार्यक्रमस्य सञ्चालनं जनपद-कार्यवाहः भूपेन्द्रः अकरोत्।
अस्मिन् कार्यक्रमे सह-विभाग-संघ-चालकः कृष्णानन्दः, वरिष्ठ-प्रचारकः राजकिशोरः, विभाग-कार्यवाहः अम्बिका-प्रसादः, विभाग-प्रचारकः कृष्णकुमारः, जनपद-प्रचारकः अजयः, धर्मेन्द्र-सिंहः, अतुल-गौडः, आलोक-पाठकः, विपिनः, श्रवण-द्विवेदी, डॉ.देवेन्द्रः, बांकेलालः, शिवम्-द्विवेदी, नगर-कार्यवाहः शिवम्-नारायणः, राम-सकलः, कृष्णकुमार-नन्दनः, इन्द्रेशः, अभिषेकः, उत्तमः, अमर-सिंहः, रमेश-पाठकः इत्यादयः सह शतशः स्वयंसेवकाः समाजस्य बहवः नागरिकाश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता