मुख्यमंत्री डॉ. यादवः अद्य प्रियभगिनीनां कोषेषु राशिः करिष्यते अंतरितः
सीहोर के आष्टा में 1.25 करोड़ बहनों के खातों में पहुँचेंगे 1836 करोड़ रूपये 184 करोड़ से अधिक के विकास एवं निर्माण कार्यों का करेंगे लोकार्पण एवं भूमि-पूजन भाेपालम्, 12 अप्रैलमासः (हि.स.)। संस्कृत-भाषानुवादः मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः अद
मुख्यमंत्री डॉ. यादव


सीहोर के आष्टा में 1.25 करोड़ बहनों के खातों में पहुँचेंगे 1836 करोड़ रूपये

184 करोड़ से अधिक के विकास एवं निर्माण कार्यों का करेंगे लोकार्पण एवं भूमि-पूजन

भाेपालम्, 12 अप्रैलमासः (हि.स.)। संस्कृत-भाषानुवादः

मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः अद्य रविवासरे सीहोरजनपदस्य आष्टानगरे आयोजिते कार्यक्रमे राज्यस्य एककोटि पञ्चविंशतिलक्षाधिकाः “लाड़ली बहनाः” नामकस्य योजनायाः लाभार्थिनीनां बैंकखातेषु १८३६ कोटि रूप्यकाधिकां राशिं अंतरणं करिष्यति।

तस्य सह मुख्यमन्त्री डॉ. यादवः सीहोरजनपदस्य २,४०,२८७ लाड़लीबहनानां खातेषु ३५ कोटि ३९ लक्ष ३२ सहस्र ५०० रूप्यकाणि अपि अंतरणं करिष्यति।

अस्मिन् अवसरे मुख्यमन्त्री डॉ. यादवः १८४ कोटि ९२ लक्ष रूप्यकव्ययेन विविधविकास-निर्माणकार्याणां लोकार्पणं भूमिपूजनं च करिष्यति। एतेषु कार्येषु ११५ कोटि ३२ लक्ष रूप्यकाणां कार्याणां लोकार्पणं तथा ६९ कोटि ६० लक्ष रूप्यकाणां कार्याणां भूमिपूजनं समाविष्टम् अस्ति।

लोकार्पणीयकार्याणि

जनसम्पर्काधिकारी देवेन्द्र ओगारे इत्यनेन उक्तं यत् मुख्यमन्त्री डॉ. यादवः ११५ कोटि ३२ लक्ष रूप्यकव्ययेन विभिन्नकार्याणां लोकार्पणं करिष्यति। तेषु आष्टानगरस्य वार्ड-१६ घनश्यामपुरायां आंगनवाड़ी-भवननिर्माणम् (१०.७६ लक्ष), पार्वतीनद्याः उपरि घाटनिर्माणम् (९७.३१ लक्ष), जावरनगरपरिषदायां नेवजनदी-उन्नयनकार्यं (१८८ लक्ष), वार्ड-०३ मध्ये नेवजनद्याः उपरि पुलिकानिर्माणम् (८८ लक्ष) च समाविष्टानि।

तत्सह आष्टानगरे सान्दीपनि-विद्यालय-भवननिर्माणम् (६१०० लक्ष), जावरनगरे सान्दीपनि-विद्यालय-भवननिर्माणम् (३९५४ लक्ष), सिद्दीगञ्जे उपतहसीलकार्यालय-निर्माणम् (८५ लक्ष), आष्टानगरे अनुविभागीय-अधिकारी (राजस्व) कार्यालय-निर्माणम् (१३१ लक्ष) च भविष्यति।

एवमेव मेहतवाड़ा ग्रामे नवीन-प्राथमिक-स्वास्थ्यकेन्द्र-निर्माणम् (२९५.४५ लक्ष) तथा आष्टा-शुजालपुरमार्गात् धनाना-खड़ी-अरनिया-गाजी-करमनखेड़ी मार्गे पुलनिर्माणकार्यं (५८२.५० लक्ष) अपि लोकार्पितं भविष्यति।

भूमिपूजनकार्याणि

मुख्यमन्त्री डॉ. यादवः ६९ कोटि ६० लक्ष रूप्यकव्ययेन विविधनिर्माणकार्याणां भूमिपूजनं करिष्यति। तेषु आष्टा-सिद्दीगञ्ज-धर्मपुरी मार्गनिर्माणम् (२००.७८ लक्ष), हुसैनपुरखेड़ी-ओल्ड आष्टा बडला मार्गनिर्माणम् (१६०.११ लक्ष), भंवरा-सिद्धेश्वर-महादेव-मन्दिरमार्गनिर्माणम् (४०१.१५ लक्ष) च समाविष्टानि।

तत्सह सिद्दीगञ्ज, कुरावर, मेहतवाड़ा, खड़ी, लोरासकला, धुराड़ाकला इत्येषु स्थानेषु शासकीय-विद्यालयनिर्माणकार्याणि (८९४.५१ लक्ष), मुख्यमन्त्री-पुलिस-आवास-योजनान्तर्गत १२ एनजीओ तथा ४८ आरक्षक-आवासनिर्माणम् (११४३.२० लक्ष), इछावरस्थे महाविद्यालयीय-छात्रावासनिर्माणम् (४५० लक्ष), पार्वती-अर्धशहरी-पुलिस-थानाभवननिर्माणम् (१९२.१३ लक्ष) च भविष्यति।

अपरं पंचायत-ग्रामीण-विकास-विभागस्य अन्तर्गत ९६ निर्माणकार्याणि (१३६८ लक्ष) तथा ५४ सामुदायिक-भवननिर्माणकार्याणि (१३२० लक्ष), कोठरी-नगरपरिषदायां “अमृत २.०” योजनान्तर्गत पेयजल-योजना (११४ लक्ष), आष्टानगरे पपनाश-नद्याः आरसीसी-नालनिर्माणम् (२४०.३९ लक्ष), मार्ग-विस्तारणं सौन्दर्यीकरणं च (४१०.३९ लक्ष), वार्ड-१४ मध्ये सब्जीमण्डी-विकासकार्यं (२६.२५ लक्ष), वार्ड-०३ मध्ये पाण्डू-शिलासमीपे सौन्दर्यीकरणकार्यं (३९.१९ लक्ष) च भूमिपूजितं भविष्यति।

---------------

हिन्दुस्थान समाचार