Enter your Email Address to subscribe to our newsletters

आसनसोल-नगरम्, १२ अप्रैलमासः (हि.स.)।पश्चिम-बङ्ग-राज्यस्य मुख्यमन्त्री ममता बनर्जी निर्वाचनात् पूर्वं सीमा-निरीक्षण-समये महिलाभिः सह कथित-अश्लीलाचारस्य गम्भीरम् आरोपं कृतवती। सा अभिनेत्री श्रीमय-चट्टराज-इत्यस्याः घटनाम् उल्लिख्य उक्तवती यत् महिलानां एतादृशी अवमानना न सोढव्या।
वस्तुतः अभिनेत्री श्रीमय-चट्टराजः 'एक्स' इत्यत्र आरोपं कृतवती यत् निरीक्षण-समये तस्याः व्यक्तिगत-वस्तूनां, अपि च व्यक्तिगत-उपयोग-सामग्रीणां अपि निरीक्षणं कृतम्। सा प्रश्नम् उत्थापितवती यत् अस्मिन् काले महिला-आरक्षक-कर्मचारिण्यः किमर्थं न आसन्।
एतस्मिन् विषये मुख्यमन्त्री उक्तवती यत् निरीक्षण-नाम्ना महिलानां गरिमायाः उल्लङ्घनं क्रियते। सा निर्वाचन-आयोगं केन्द्र-सर्वकारं च प्रति आलोचनां कृत्वा उक्तवती यत् जनाः अस्य उत्तरं मतदानद्वारा दास्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता