मुख्यमन्त्री डॉ.यादवः “विज्ञान-मन्थन-यात्रा २०२५-२६” इत्यस्य विज्ञापनस्य विमोचनं कृतवान्
भोपाल-नगरम्, १२ अप्रैलमासः (हि.स.)। मध्यप्रदेश-राज्यस्य मुख्यमन्त्री डॉ.मोहन-यादवः रविवासरे “विज्ञान-मन्थन-यात्रा २०२५-२६” इत्यस्य विज्ञापनस्य मुख्यमन्त्री-निवासे विमोचनं कृतवान्। सः अस्य अभिनव-योजनायाः विद्यार्थिषु वैज्ञानिक-दृष्टिकोण-विकासाय महत्
मुख्यमंत्री डॉ. मोहन यादव ने “विज्ञान मंथन यात्रा 2025-26” के पोस्टर का किया विमोचन


भोपाल-नगरम्, १२ अप्रैलमासः (हि.स.)। मध्यप्रदेश-राज्यस्य मुख्यमन्त्री डॉ.मोहन-यादवः रविवासरे “विज्ञान-मन्थन-यात्रा २०२५-२६” इत्यस्य विज्ञापनस्य मुख्यमन्त्री-निवासे विमोचनं कृतवान्। सः अस्य अभिनव-योजनायाः विद्यार्थिषु वैज्ञानिक-दृष्टिकोण-विकासाय महत्त्वपूर्णं पदम् इति निर्दिश्य शुभाशंसाः दत्तवान्, मध्यप्रदेश-विज्ञान-प्रौद्योगिकी-परिषदः प्रयासान् प्रशंसितवान् च।

मध्यप्रदेशे विज्ञान-शिक्षायाः नूतन-दिशा-प्रदानार्थं मध्यप्रदेश-विज्ञान-प्रौद्योगिकी-परिषदेन “मिशन-एक्सीलेंस” अभियानस्य अन्तर्गतं “विज्ञान-मन्थन-यात्रा २०२५-२६” आयोज्यते। अस्याः योजनायाः उद्देश्यं प्रदेशस्य विद्यार्थिषु विज्ञानं प्रति रुचिं जिज्ञासां च वर्धयितुम् अस्ति। अस्यां योजनायां शासकीय-अशासकीय-विद्यालयानां दशम-कक्षायाः मेधाविनः छात्राः तथा एकादश-द्वादश-कक्षयोः विज्ञान-संकायस्य छात्राः सम्मिलिताः भविष्यन्ति। अस्मिन् वर्षे आहत्य ३७५ विद्यार्थिनः २७ शिक्षकाः च चयनिताः सन्ति। अप्रैल-मासे आयोजितायां अस्यां यात्रायां चयनित-विद्यार्थिभिः सह विज्ञान-विषयस्य शिक्षकाः शिक्षिकाश्च अपि सहभागिनः भविष्यन्ति।

चयनित-विद्यार्थिनः देशस्य प्रतिष्ठितां अन्तरिक्ष-संस्थां “इण्डियन-स्पेस-रिसर्च-ऑर्गेनाइजेशन” (इसरो) तथा श्रीहरिकोटा-स्थितानां प्रमुख-अनुसन्धान-संस्थानानां प्रयोगशालानां च शैक्षणिक-भ्रमणं करिष्यन्ति। अत्र विद्यार्थिभ्यः वैज्ञानिकैः सह प्रत्यक्ष-संवादस्य अवसरः भविष्यति, येन ते स्वीय-जिज्ञासायाः समाधानं प्राप्स्यन्ति। यात्राकाले छात्राः चन्द्रयान-अभियानेन सह विविध-उपग्रह-नमूनानां तेषां कार्यप्रणालीनां च समीपतः अवगमनं करिष्यन्ति, तथा च तेषां वैज्ञानिकैः सह अपि मिलिष्यन्ति येषां अभियानस्य सफलतायां महत्त्वपूर्णा भूमिका आसीत्।

एषः प्रयत्नः न केवलं विद्यार्थिनः विज्ञानस्य व्यावहारिक-पक्षैः परिचेष्यति, अपि तु तेषु नवाचार-शक्तिं, अनुसन्धान-प्रवृत्तिं वैज्ञानिक-दृष्टिकोणं च सुदृढं करिष्यति, येन ते भविष्ये विज्ञान-प्रौद्योगिकी-क्षेत्रे उत्कृष्टं योगदानं दातुं प्रेरिताः भविष्यन्ति।अस्मिन् अवसरे परिषदः महानिदेशकः डॉ.अनिल-कोठारी, कार्यकारी-संचालकः तथा विज्ञान-मन्थन-यात्रायाः प्रमुखः डॉ.विवेक-कटारे, वरिष्ठ-तकनीकी-अधिकारी प्रभारी च डॉ.सुनील-गर्गः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता