Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ अप्रैलमासः (हि.स.)। डॉ.भीमराव-अम्बेडकरस्य १३६तम-जन्मजयन्त्याः पूर्वं रविवासरे रोहिणी-क्षेत्रस्य सेक्टर-२० मध्ये तस्य नाम्ना निर्मीयमाणस्य सामुदायिक-केन्द्रस्य भूमिपूजन-कार्यक्रमः सम्पन्नः।
एतत् समुदाय-केन्द्रं प्रायः ३ कोटि ६२ लक्ष-रूप्यक-व्ययेन निर्मीयते, यः आगामी-द्विवर्षाभ्यन्तरे पूर्णः भूत्वा क्षेत्रवासिभ्यः समर्पयिष्यते।
तस्मिन् एव अवसरे क्षेत्रस्य सर्वाङ्गीण-विकासं दृष्ट्वा ३ कोटि ६१ लक्ष-रूप्यक-व्ययेन वाल्मीकि-उद्यानस्य सौन्दर्यीकरणं तथा च नालिका-प्रणाल्याः (सीवर-लाइन) नवीनीकरण-कार्यं अपि क्रियते।अस्मिन् कार्यक्रमे दिल्ली-सर्वकारस्य समाज-कल्याण-मन्त्री रवीन्द्र-इन्द्राज-सिंहः जनसमूहं सम्बोधयन् उक्तवान् यत् एषा परियोजना केवलं भवन-निर्माणं न, अपि तु वंचित-शोषित-निर्धन-वर्गस्य उत्थानाय महत्त्वपूर्णं पदं अस्ति।
सः अवदत् यत् समयः जीवनस्य महत्त्वपूर्णा सम्पत्तिः अस्ति, तथा समाजाय समयदानं कृत्वा सर्वकारः सर्वाणि सौविध्यानि प्रदातुं प्रतिबद्धा अस्ति। सः अपि क्षेत्रस्य मूलभूत-समस्याः (जलं, नालिका-व्यवस्था च) प्राथमिकतया समाधानं करिष्यन्ती इति उक्तवान्।
निर्मीयमाणे अस्मिन् केन्द्रे वातानुकूलित-द्वितलीय-भवनम्, सामाजिक-सांस्कृतिक-कार्यक्रमार्थं आधुनिक-सभागारः, तथा भविष्ये अटल-कैण्टीन-आरोग्य-सेवाः इत्यादिनां सौविध्यानां प्रावधानम् अपि भविष्यति।
मन्त्री डॉ.भीमराव-अम्बेडकरस्य विचारान् स्मरन् उक्तवान् यत् एषा परियोजना तेषां सामाजिक-समरसता-समानता-विचाराणां प्रत्यक्ष-प्रतिबिम्बरूपा श्रद्धाञ्जलिः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता