Enter your Email Address to subscribe to our newsletters

लखनऊ-नगरम्, १२ अप्रैलमासः (हि.स.)। योगी-सर्वकारेण कस्तूरबा-गान्धी-बालिका-विद्यालय (केजीबीवी) व्यवस्थायां व्यापकानि दृढानि च संशोधनानि सुनिश्चितानि। नवीनतम-विवरणानि सूचयन्ति यत् प्रदेशे एकस्मिन् पक्षे रिक्त-पदानां शीघ्रं पूरण-प्रक्रिया प्रगतिम् आगता, अपरस्मिन् पक्षे आधारभूत-संरचनायाः छात्रिणां च दैनिक-सुविधानां विस्तारः अपि अभिवृद्धिं प्राप्तवान्। अपि च निविदा-प्रक्रियायां पारदर्शितां समयबद्धतां च स्थापयितुं राज्य-परियोजना-कार्यालयेन स्पष्ट-निर्देशाः अपि निर्गताः। अधुना बेसिक-शिक्षा-विभागः खाद्यान्न-दैनिकोपयोग-सामग्री-लेखनसामग्री-आपूर्तिं सुनिश्चितं करोति।
प्रदेश-सर्वकारस्य प्रवक्ता रविवासरे उक्तवान् यत् योगी-सर्वकारस्य नीतिगत-कठोरता सतत-निरीक्षणेन परिणामाधारित-कार्यप्रणाल्या च कारणेन केजीबीवी अधुना आवासीय-विद्यालय-रूपेण एव न, किन्तु सुरक्षित-सुसज्जित-आधुनिक-शैक्षिक-परिसर-रूपेण अपि विकसिताः भवन्ति। एतत् परिवर्तनं प्रदेशस्य कन्याभ्यः उत्तमाः अवसराः सुविधाः सशक्त-भविष्यं च प्रदातुं दृढं पदम् अस्ति।
आधारभूत-सुविधानां तीव्र-विस्तारः
प्रदेशस्य विभिन्नेषु जनपदेषु केजीबीवी-अन्तर्गतं शैक्षिक-छात्रावासाः अतिरिक्त-शयनगृहाणि (डॉरमेट्री), संगणक-प्रयोगशालाः शौचालय-समूहाश्च तीव्रतया विस्तारिताः। विवरणानुसारं बहुषु जनपदेषु एतानि कार्याणि सम्पन्नानि सन्ति, येन छात्रिणां कृते उत्तमं आवासीय-शैक्षिक-पर्यावरणं उपलब्धम्।
रिक्त-पदानां शीघ्रं पूरणम्
केजीबीवी-रिक्त-पदानां पूरण-प्रक्रिया शीघ्रतया प्रवर्तते। प्रयागराजे (४३), बलियायां (४२), उन्नावे (३९), एटा-जनपदे (३५) च उच्च-रिक्तताः चिन्हीकृत्य तेषां पूरणं शीघ्रं क्रियते। एतेषु जनपदेषु अभ्यर्थिनां परीक्षण-प्रक्रिया प्रवर्तमाना अस्ति। श्रावस्ती-रायबरेली-आजमगढ़-ललितपुर-आदिषु जनपदेषु तु किमपि पदं रिक्तं नास्ति, यत् प्रभावी-निरीक्षण-उत्तरदायित्व-व्यवस्थायाः द्योतकं अस्ति।
छात्रिणां दैनिक-जीवनस्य सुगमता
छात्रिणां दैनिक-जीवनं सुलभं कर्तुं रोटी-निर्माण-यन्त्राणि, सौर-उष्णजल-यन्त्राणि (सोलर-गीजर), जनरेटर-यन्त्राणि (जेनसेट्), धावन-यन्त्राणि (वाशिंग-मशीन्) इत्यादीनि उपलभ्यन्ते। तत्सह लोक-संगीत-वाद्ययन्त्राणि, मुक्त-व्यायामशाला (ओपन-जिम्), ‘एक-केजीबीवी-एक-खेल’ इत्यादयः उपक्रमाः अपि छात्रिणां सर्वाङ्गीण-विकासाय प्रवर्तिताः।
भवन-सम्यक्करण-कार्येषु प्रगतिः
भवन-सम्यक्क-कार्येषु अपि शीघ्रता दृश्यते। वर्षे २०२५-२६ मध्ये बलरामपुरे ८० प्रतिशतं कार्यं सम्पन्नं जातम्। अन्येषु जनपदेषु अपि मरम्मत-सुदृढीकरण-कार्याणि निरन्तरं प्रगतौ सन्ति। निर्माण-सम्बद्ध-विवरणानि सूचयन्ति यत् प्रदेशे केजीबीवी-अन्तर्गतं आधारभूत-संरचनायाः विस्तारः तीव्रगत्या जातः, बहूनि कार्याणि अन्तिम-हस्तान्तरण-प्रक्रियायां सन्ति।
बेसिक-शिक्षा-विभागस्य अनुसारं बाराबंकी-जनपदे ३४ कार्याणि (२० अतिरिक्त-डॉरमेट्री, १३ संगणक-प्रयोगशालाः, १ शौचालय-समूहः), हरदोई-जनपदे ३३ कार्याणि (४ छात्रावासाः, १६ डॉरमेट्री, ६ संगणक-प्रयोगशालाः, ७ शौचालय-समूहाः) तथा लखीमपुर-खीरी-जनपदे २७ कार्याणि सम्पन्नानि।
हिन्दुस्थान समाचार / अंशु गुप्ता