जनगणनामाधृत्य अद्य पत्रकारवार्ता, अतिरिक्त मुख्य सचिवः पिंगुआ करिष्यति संबाेधितम्
रायपुरम् 13 अप्रैलमासः (हि.स.)।आगामिनि राष्ट्रिय-जनगणना २०२७ विषये प्रशासनस्य सज्जता तीव्रा कृता अस्ति। अस्यां जनगणनायां बहुषु अर्थेषु विशेषता दृश्यते, यतः प्रथमवारं सम्पूर्णा प्रक्रिया डिजिटल-आधारित-प्रणाल्यां भविता। राजधानी रायपुर-नगरे अद्य सोमव
जनगणनामाधृत्य अद्य पत्रकारवार्ता, अतिरिक्त मुख्य सचिवः पिंगुआ करिष्यति संबाेधितम्


रायपुरम् 13 अप्रैलमासः (हि.स.)।आगामिनि राष्ट्रिय-जनगणना २०२७ विषये प्रशासनस्य सज्जता तीव्रा कृता अस्ति। अस्यां जनगणनायां बहुषु अर्थेषु विशेषता दृश्यते, यतः प्रथमवारं सम्पूर्णा प्रक्रिया डिजिटल-आधारित-प्रणाल्यां भविता।

राजधानी रायपुर-नगरे अद्य सोमवासरे जनगणना-विषये जागरूकतां वर्धयितुं अपराह्णे १२ वादने रायपुरस्य प्राचीन-सर्किट-हाउस-स्थले पत्रकार-परिषद् आयोजिता भविष्यति। अस्मिन् कार्यक्रमे अतिरिक्त-मुख्य-सचिवः मनोज कुमार पिंगुआ तथा निदेशकः कार्तिकेय गोयल मीडिया-प्रतिनिधिभ्यः विस्तृतां जानकारीं दास्यतः।

हिन्दुस्थान समाचार