Enter your Email Address to subscribe to our newsletters

रायपुरम् 13 अप्रैलमासः (हि.स.)।
छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेव साय सोमवासरे अद्य सुकमा तथा रायपुरयोः आयोजितेषु विविधेषु महत्वपूर्णेषु कार्यक्रमेषु सहभागी भविष्यति। दिवसभरस्य भ्रमणकार्यक्रमे सः स्वास्थ्य शिक्षा क्रीडा उद्योगसम्बद्धानां अनेकानां परियोजनानां उद्घाटनं लोकार्पणं च करिष्यति।
मुख्यमन्त्री साय प्रातः ११:३० वादने सुकमायै प्रस्थानं करिष्यति। तत्र सः अटल आरोग्य प्रयोगशालायाः उद्घाटनं करिष्यति। ततः सः जिला पुनर्वास केन्द्रे विज्ञान उद्याने इमली प्रसंस्करण केन्द्रे च विविधेषु कार्यक्रमेषु सहभागी भविष्यति। विज्ञान उद्याने सः वीआर प्रयोगशालायाः तथा एसटीईएम प्रयोगशालायाः उद्घाटनं करिष्यति, सहैव नालंदा परिसर भवननिर्माणस्य भूमिपूजनं अपि करिष्यति। इमली प्रसंस्करण इकायाः शुभारम्भं कृत्वा स्थानीयजीविकाया प्रोत्साहनं दास्यति।
अनन्तरं अपराह्णे २:२० वादने सुकमा स्थिते मिनी क्रीडाङ्गणे “मुख्यमन्त्री स्वास्थ्य बस्तर अभियान” इत्यस्य शुभारम्भः भविष्यति। अस्मिन् अवसरि जिल्लायाः विविधविकासकार्याणां लोकार्पणं भूमिपूजनं च अपि क्रियते।
सुकमा भ्रमणानन्तरं मुख्यमन्त्री साय सायं ४:३५ वादने नवा रायपुरं प्रत्यागच्छति। तत्र सः आईआईटी नवा रायपुरे आयोजिते “मेरा भारत बजट क्वेस्ट २०२६” इत्यस्य समापनसमारोहे सहभागी भविष्यति। ततः सायं ५:४५ वादने रायपुरस्य लभाण्डी क्षेत्रे पटनी टोयोटा इत्यस्य भव्यप्रारम्भकार्यक्रमे अपि भागं गृह्णाति।
आदिवसं व्यस्तकार्यक्रमानन्तरं सः सायं ६:४५ वादने पुनः मुख्यमन्त्री निवासं प्रत्यागच्छति।।
हिन्दुस्थान समाचार