खैराखांडी व्यपवर्तन योजनायै  22.49 कोटिमितःराशिः स्वीकृतः, 565 हेक्टेयर क्षेत्रं भविष्यति सिंचितम्
रायपुरम् 13 अप्रैलमासः (हि.स.)। जल संसाधन विभाग छत्तीसगढ़द्वारा अद्य सोमवासरे कोरियाजनपदस्य खडगंवाविकासखण्डे खैराखाण्डी-व्यपवर्तनयोजनायाः कार्याणां कृते द्वाविंशतिः कोटिः नवचत्वारिंशत् लक्षरूप्यकाणां (२२.४९ कोटिरूप्यकाणि) पुनरीक्षितप्रशासकीयस्वी
खैराखांडी व्यपवर्तन योजनायै  22.49 कोटिमितःराशिः स्वीकृतः, 565 हेक्टेयर क्षेत्रं भविष्यति सिंचितम्


रायपुरम् 13 अप्रैलमासः (हि.स.)।

जल संसाधन विभाग छत्तीसगढ़द्वारा अद्य सोमवासरे कोरियाजनपदस्य खडगंवाविकासखण्डे खैराखाण्डी-व्यपवर्तनयोजनायाः कार्याणां कृते द्वाविंशतिः कोटिः नवचत्वारिंशत् लक्षरूप्यकाणां (२२.४९ कोटिरूप्यकाणि) पुनरीक्षितप्रशासकीयस्वीकृतिः प्रदत्ता।

अस्याः योजनायाः सम्पन्नतया क्षेत्रस्य कृषकाणां महदुपकारः भविष्यति। अस्य परियोजनायाः माध्यमेन खरीफऋतौ ४०० हेक्टेयरभूमौ तथा रबीऋतौ १६५ हेक्टेयरभूमौ, एवं समष्ट्या ५६५ हेक्टेयरकृषिक्षेत्रे सिंचनसुविधा उपलब्धा भविष्यति।

राज्यशासनस्य अस्य उपक्रमस्य परिणामतः क्षेत्रे कृषिउत्पादने वृद्धिः तथा कृषकाणां आयां सकारात्मकः सुधारः अपेक्षितः अस्ति। एषा योजना जलसंसाधनानां समुचितोपयोगे तथा ग्रामीणअर्थव्यवस्थायाः सुदृढीकरणे महत्वपूर्णं पदं सिद्धं भविष्यति।

---------------

हिन्दुस्थान समाचार