Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १३ अप्रैलमासः (हि.स.)। केन्द्र-सर्वकारेण अद्य सोमवासरे (१३ अप्रैलमासे) प्रातः ११:०० वादने नवदिल्ली-स्थिते विज्ञान-भवने “नारी-शक्ति-वन्दन-सम्मेलनम्” इति कार्यक्रमः आयोज्यते। अस्मिन् कार्यक्रमे प्रधानमन्त्री नरेंद्रः मोदी स्वयम् उद्बोधनं करिष्यति। कार्यक्रमस्य सरल-प्रसारणं मध्यप्रदेश-राज्यस्य सर्वेषु जनपदेषु भविष्यति।
मध्यप्रदेशस्य पंचायत-ग्रामीण-विकास-विभागस्य उपसचिवः हृदयेश-श्रीवास्तवः उक्तवान् यत् अस्मिन् सम्मेलने देशस्य विभिन्नक्षेत्रेषु सफलाः महिलाः सहभागं करिष्यन्ति, यथा – महिला-उद्यमिन्यः, नीतिनिर्मातरः, शिक्षाविदाः, चिकित्सकाः, वैज्ञानिकाः, क्रीडिकाः, स्टार्टअप-नेतृगणाः, सञ्चारमाध्यम-विशेषज्ञाः, समाजसेविन्यः तथा कला-संस्कृतिक्षेत्रस्य प्रमुख-प्रतिनिधयः च।
सः अवदत् यत् प्रातः ११:०० वादने आरभ्य अपराह्णे १२:३० वादनपर्यन्तं एषः कार्यक्रमः सरल-प्रसारणेन प्रसारितः भविष्यति। उपसचिवः सर्वान् जनपद-पंचायत-सीईओ-जनान् कार्यक्रमे भागग्रहणाय निर्देशितवान्।
सः अपि उक्तवान् यत् जनप्रतिनिधयः, महिला-पंचायत-प्रतिनिधयः, महिला-अधिकारी-कर्मचारिण्यः तथा सामान्यजनाः अपि अस्मिन् कार्यक्रमे योजयितव्याः। कार्यक्रमस्य सरल-प्रसारणं डीडी-न्यूज्-चैनल-इत्यत्रापिपि भविष्यति। इच्छुकाः जनाः ग्राम-पंचायत-स्तरं यावत् वेबकास्ट-लिङ्क-माध्यमेन (https://pmindiawebcast.nic.in/) सह सहजतया सम्बद्धाः भवितुं शक्नुवन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता