देशे 90 दिनाय पर्याप्तः अंगारस्य भंडार उपलब्धः - जी. किशन रेड्डी
नव दिल्ली/हैदराबादम्, 13 अप्रैलमासः (हि.स)।केन्द्रीयकोयलाखनमन्त्री जी किशन रेड्डी सोमवासरे अवदत् यत् देशे नवतिदिनानां आवश्यकतायै पर्याप्तं द्विशतकोटिटनाधिकं कोयलसञ्चयः उपलब्धः अस्ति। हैदराबादनगरे कोयलामन्त्रालयेन आयोजिते कार्यक्रमे संवाददातृभिः सह
हैदराबाद में खान मंत्रालय द्वारा आयोजित कार्यक्रम के दौरान जी. किशन रेड्डी


नव दिल्ली/हैदराबादम्, 13 अप्रैलमासः (हि.स)।केन्द्रीयकोयलाखनमन्त्री जी किशन रेड्डी सोमवासरे अवदत् यत् देशे नवतिदिनानां आवश्यकतायै पर्याप्तं द्विशतकोटिटनाधिकं कोयलसञ्चयः उपलब्धः अस्ति। हैदराबादनगरे कोयलामन्त्रालयेन आयोजिते कार्यक्रमे संवाददातृभिः सह संभाषमाणः सः उक्तवान् यत् देशे अनुवर्तीद्वितीयवर्षे अपि एकअर्बटनपरिमितं कोयलोत्पादनं साधितम्।

तेन उक्तं यत् अद्य तापविद्युतसंयन्त्रेषु खनिषु च नवतिदिनपर्यन्तं पर्याप्तः कोयलसञ्चयः अस्ति। पूर्वं अस्माकं केवलं एकविंशतिदिनात् पञ्चविंशतिदिनपर्यन्तं सञ्चयः आसीत् किन्तु अधुना द्विशतकोटिटनाधिकः कोयलसञ्चयः विद्यते इति तेन स्पष्टीकृतम्।

रेड्डी महोदयः अवदत् यत् केन्द्रसरकारस्य लक्ष्यं खनिजक्षेत्रे आयातनिर्भरता न्यूनीकर्तुं देशं च आत्मनिर्भरं कर्तुम् अस्ति। सः उक्तवान् यत् सरकारः खनिजक्षेत्रे केवलं राजस्वार्थं न कार्यं करोति किन्तु देशस्य आत्मनिर्भरता सुनिश्चितुं महत्त्वपूर्णानि उपायानि स्वीकरोति।

केन्द्रीय मन्त्री भविष्ये नगरीयखननं तथा कोयलगैसीकरणं प्रति विशेषं बलं दत्तवान्। तेन उक्तं यत् ठोसकोयलस्य रासायनिकप्रक्रियया गैसरूपे परिवर्तनं कृत्वा बहवः उपयोगाः सम्भवन्ति। सः निजीक्षेत्रं सार्वजनिकक्षेत्रस्य उपक्रमैः राज्यसरकारैः अन्यैः संस्थाभिः सह सहयोगं कर्तुं आह्वानं कृतवान्।

तेन अपि उक्तं यत् नगरीयखननमार्गेण देशस्य आवश्यकतानां त्रिंशत् प्रतिशतात् चत्वारिंशत् प्रतिशतपर्यन्तं महत्त्वपूर्णखनिजानि अपशिष्टात् निष्कासयितुं शक्यन्ते। अस्य दिशायां सर्वकारः कार्ययोजनां निर्माति यस्याः अन्तर्गतं प्रत्येकनगरात् अपशिष्टसंग्रहः कृत्वा रेफ्रिजरेटर वातानुकूलकादिभ्यः महत्त्वपूर्णखनिजानि निष्कास्यन्ते।

---------------

हिन्दुस्थान समाचार