Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 13 अप्रैलमासः (हि.स.)। चारधामयात्रा २०२६ अस्मिन् वर्षे केवलं श्रद्धाया न, अपितु सुरक्षा सुदृढस्वास्थ्यव्यवस्थायाः आदर्शरूपेण अपि संयोज्यते। मुख्यमंत्री पुष्कर सिंह धामी महोदयस्य निर्देशानुसारं यात्रां उच्चजोखिमयुक्तं कार्यमिति मन्यन्ते, तस्मात् स्वास्थ्यसेवाः केन्द्रस्थाने स्थापिता: सन्ति। रुद्रप्रयाग, चमोली, उत्तरकाशी च जिलासु ४७ स्थायी स्वास्थ्यकेन्द्राणि सुदृढीकृतानि, तथा २५ चिकित्सासहाय्यकेन्द्राणि सक्रियाणि कृतानि। लक्ष्यं अस्ति यत् दुर्गमे पर्वतीयमार्गेषु अपि प्रत्येकं श्रद्धालुं शीघ्रं चिकित्सोपचारः प्राप्नुयात्।
सोमवासरे स्वास्थ्यविभागेन प्रकाशितायां विज्ञप्तौ उक्तं यत् यात्रारम्भात् पूर्वमेव स्वास्थ्यपरीक्षणस्य सुदृढव्यवस्था प्रवर्तिता अस्ति। देहरादून, हरिद्वार, रुद्रप्रयाग, चमोली, उत्तरकाशी च स्थलेषु ५७ परीक्षणकियोस्काः स्थापिताः सन्ति, यत्र उच्चरक्तचापः, हृदयरोगः, मधुमेहः इत्यादीनां परीक्षणं कृत्वा यात्रिभ्यः समये उपदेशः दीयते। यात्रायाः कठिनतमेषु स्थलेषु केदारनाथे बद्रीनाथे च विशेषव्यवस्था कृता अस्ति। केदारनाथे १७ शय्यायुक्तं चिकित्सालयं सञ्चालितं अस्ति, बद्रीनाथे तु ५० शय्यायुक्तं आधुनिकं चिकित्सालयं जूनमासपर्यन्तम् आरभ्यते।
यात्रामार्गे २५ विशेषज्ञवैद्याः, १७८ चिकित्साधिकारिणः, ४१४ परिचारककर्मचारिणश्च नियुक्ताः सन्ति। आवश्यकतानुसारं अधिककर्मचारिणः अपि योज्यन्ते। विशेषज्ञेषु चिकित्सकाः, अस्थिरोगविशेषज्ञाः, संज्ञाहरणविशेषज्ञाः, स्त्रीरोगविशेषज्ञाश्च सन्ति। दून तथा श्रीनगर चिकित्सामहाविद्यालययोः कर्मिणः विशेषप्रशिक्षणं प्राप्नुवन्ति। तथैव होटल, धर्मशाला सञ्चालकाः, खच्चरचालकाः च आपत्कालीनपरिस्थितीनां विषये जागरूकाः कृताः।
यात्रामार्गे १७७ एम्बुलेंसयानानि नियुक्तानि सन्ति। हेलीकॉप्टरद्वारा उद्धारव्यवस्था अपि सुनिश्चिता अस्ति। यूकाडा संस्थायाः समन्वयेन तथा एम्स ऋषिकेश संस्थायाः साहाय्येन हेलीएम्बुलेंससेवा चालयिष्यते, येन गम्भीररोगिणः शीघ्रं चिकित्सालयं नीयन्ते। यात्रिणां सुविधार्थं १३ भाषासु स्वास्थ्यपरामर्शः प्रकाशितः अस्ति। प्रमुखस्थलेषु कर्तव्यअकर्तव्यविषये सूचनाफलकानि अपि स्थापितानि सन्ति। ११२, १०८, १०४ इति सहायतालाइनाः चतुर्विंशतिघण्टाः सक्रियाः भविष्यन्ति। १०४ सहायतालाइनद्वारा उच्चजोखिमयुक्तयात्रिणां निरीक्षणं सततम् क्रियते।
स्वास्थ्य मन्त्री सुबोध उनियाल महोदयः उक्तवान् यत् एषा यात्रा लक्षाधिकानां श्रद्धालूनां सुरक्षया सम्बद्धा महती उत्तरदायित्वपूर्णा च। अस्मिन् वर्षे स्वास्थ्यव्यवस्थाः नवस्तरे उन्नीताः सन्ति। स्वास्थ्यसचिवः सचिन कुर्वे महोदयः अपि उक्तवान् यत् परीक्षणात् आरभ्य चिकित्सालयपर्यन्तं सर्वत्र सुदृढव्यवस्था अस्ति। केवलं चिकित्सा न, अपितु रोगनिवारणं समये हस्तक्षेपश्च अपि मुख्यलक्ष्यं अस्ति। चारधामयात्रा २०२६ श्रद्धया सह सुरक्षा सुशासनयोः अपि नूतनमानकं स्थापयिष्यति।
हिन्दुस्थान समाचार