Enter your Email Address to subscribe to our newsletters

हल्द्वानी, 13 अप्रैलमासः (हि.स.)। नगरनिगमेन सञ्चाल्यमाने विशेषस्वच्छताअभियाने अन्तर्गतं सोमवासरे रानीबागस्थे चित्रशिलाघाटे व्यापकः स्वच्छताअभियानः सञ्चालितः। नगरायुक्तः परितोषवर्मा इत्यस्य नेतृत्वे सम्पन्ने अस्मिन् अभियाने निगमकर्मचारिणः घाटपरिसरं तस्य समीपे स्थितां च मलिनतां निर्मार्ज्य स्वच्छतायाः संदेशं प्रदत्तवन्तः।
अस्मिन् अवसरे नगरायुक्तः परितोषवर्मा अवदत् यत् नगरनिगमः समयसमये एतादृशान् अभियानान् सञ्चालयति, येषां मुख्यः उद्देश्यः नगरं स्वच्छं सुन्दरं च धारयितुम् अस्ति। सः अवदत् यत् जनसहभागितया एव हल्द्वानीनगरं ‘ग्रीनसिटी’ इति रूपेण विकसितुं शक्यते।
तेन सामान्यजनान् प्रति अपि आह्वानं कृतं यत् ते सार्वजनिकस्थलेषु स्वच्छतां धारयन्तु तथा नगरनिगमस्य प्रयासेषु सहकार्यं कुर्वन्तु।
हिन्दुस्थान समाचार