Enter your Email Address to subscribe to our newsletters

वाराणसी-नगरम्, १२ अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुर-जनपदे रामबाग-चुनार-स्थिते सुरभि-शोध-संस्थाने गौ-सेवा-काशी-प्रान्तस्य त्रिदिवसीय-निवासी-प्रशिक्षण-शिविरं आरब्धम्। अस्मिन् शिविरे अखिल-भारतीय-प्रशिक्षक-प्रमुखः के.ई.एन.राघवन् उपस्थितः अस्ति।
शिविरे प्रान्त-स्तरीय-कार्यकर्तारः, विभाग-संयोजकाः, जनपद-संयोजकाः तथा प्रशिक्षण-प्रमुखाः भागं गृह्णन्ति। अस्मिन् प्रशिक्षणे गोमय-निर्मित-वस्तूनां निर्माणम्, गोमूत्रस्य लाभाः, पादप-विकासाय आवश्यक-खाद-निर्माणं च शिक्ष्यते।
शिविर-समापनानन्तरं एते कार्यकर्तारः स्व-स्व-नगर-जनपदेषु प्रशिक्षण-कार्यक्रमान् आयोज्य अन्यान् अपि कार्यकर्तॄन् प्रशिक्षयिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता