Enter your Email Address to subscribe to our newsletters

— टीम ने फ्रीज-ड्राइड स्ट्रॉबेरी पाउडर के उपयोग से एक विशेष 'सेट दही' किया विकसित
वाराणसी, 13 अप्रैलमासः (हि.स.)। काशी हिन्दू विश्वविद्यालयस्य वरिष्ठप्राध्यापकः तथा अद्यतनकाले बीआर अम्बेडकर बिहार विश्वविद्यालयस्य कुलपतिः प्रो दिनेशचन्द्र राय महोदयस्य नेतृत्वे एकया विशेषज्ञशोधदलस्य दुग्धविज्ञानक्षेत्रे महती सफलता प्राप्ता। तेन दलिना फ्रीज ड्राइड स्ट्रॉबेरी चूर्णस्य उपयोगेन विशेषः सेट दधि विकसितः, यः उच्चप्रभावकारकाङ्कयुक्ते अन्ताराष्ट्रियपत्रिकायां एप्लाइड फूड रिसर्च एल्सेवियर इत्यस्मिन् प्रमुखतया प्रकाशितः।
अस्य अत्याधुनिक मेटाबोलोमिक्स तकनीकस्य माध्यमेन अस्मिन् दध्नि चतुस्त्रिंशत् शक्तिशालिनः जैवसक्रियसंयुग्माः अभिज्ञाताः, येषु अल्फा लिनोलेनिक अम्लं तथा एलाजिक अम्लं प्रमुखौ स्तः। एते तत्त्वानि कर्कटरोगप्रतिरोधक्षमतां वर्धयितुं सूजनं न्यूनयितुं हृदयस्वास्थ्यं च सुधारयितुं सहायकानि भवन्ति।
शोधेन ज्ञातं यत् दध्नि अष्टप्रतिशतपरिमाणेन स्ट्रॉबेरीचूर्णस्य मिश्रणं स्वादे वर्णे पोषणे च दृष्ट्या सर्वोत्तमम् अस्ति। अस्यां सिद्धौ प्रो रायः स्वदलस्य अभिनन्दनं कृतवान्। तेन उक्तं यत् एषः नवाचारः भारतीयदुग्धक्षेत्रे मूल्यवर्धितउत्पादनां वाणिज्यिकनिर्माणं प्रोत्साहयिष्यति। स्वदलस्य समर्पणं वैज्ञानिकक्षमतां च प्रति सः गौरवं व्यक्तवान्।
प्रो रायो विश्वासं व्यक्तवान् यत् एषः शोधः भविष्ये पोषणाधारितखाद्यपदार्थानां विकासे मीलपत्थररूपेण मार्गदर्शकश्च भविष्यति। एतत् प्रकाशनं तस्य अन्यत् महत्त्वपूर्णं सिद्धिः अस्ति, यतः गतद्विवर्षयोः मध्ये एतत् एकत्रिंशत्तमं उच्चस्तरीय अन्ताराष्ट्रियशोधपत्रप्रकाशनम् अस्ति। अस्य सफलतायां काशी हिन्दू विश्वविद्यालयस्य तथा बीआर अम्बेडकर बिहार विश्वविद्यालयस्य शैक्षिकसमुदायेन पूर्वछात्रसमुदायेन च हर्षः व्यक्तः।
हिन्दुस्थान समाचार