मेदिनीपुरे स्टार प्रचारकानाम् आगमनेन निर्वाचनीयसमराय अलभत तीव्रताम्
मेदिनीपुरम्, 13 अप्रैलमासः (हि.स.)।पश्चिम-मेदिनीपुर-जिले रविवासरे निर्वाचन-क्रियाकलापाः चरम-सीमां प्राप्तवन्तः। विभिन्नेषु विधानसभा-क्षेत्रेषु राजनीतिक-दलानां प्रमुख-नेतृभिः सह चलचित्र-कलाकाराणाम् अपि उपस्थित्या समग्रः प्रदेशः निर्वाचन-रङ्गेन रञ्जि
स्टार प्रचारकों की चुनावी प्रचार


मेदिनीपुरम्, 13 अप्रैलमासः (हि.स.)।पश्चिम-मेदिनीपुर-जिले रविवासरे निर्वाचन-क्रियाकलापाः चरम-सीमां प्राप्तवन्तः। विभिन्नेषु विधानसभा-क्षेत्रेषु राजनीतिक-दलानां प्रमुख-नेतृभिः सह चलचित्र-कलाकाराणाम् अपि उपस्थित्या समग्रः प्रदेशः निर्वाचन-रङ्गेन रञ्जितः इव दृष्टः।

कांथी तथा नन्दकुमार-क्षेत्रयोः योगी आदित्यनाथो जनसभाः सम्बोध्य विपक्षस्य विरुद्धं तीक्ष्ण-आक्षेपान् कृतवान्। तेन राज्ये विधि-व्यवस्थाया विकासस्य च विषये प्रश्नाः उपस्थिताः कृताः, तथा उक्तं यत् “अराजकतां प्रसारयन्तानां प्रति कठोर-कार्या आवश्यकाः।”

अन्यतः ऑल इंडिया तृणमूल कांग्रेस पक्षस्य राष्ट्रिय-महासचिवः अभिषेक बैनर्जी मोयना तथा केशपुर-क्षेत्रयोः निर्वाचन-सभाः कृत्वा कार्यकर्तॄणां मध्ये उत्साहं जनितवान्। तेन उक्तं यत् दलः प्रत्येकं क्षेत्रं स्वस्य लोकसभा-क्षेत्रवत् सुदृढं सुरक्षितं च करिष्यति, विकास-कार्याणि च अधिकवेगेन प्रवर्तयिष्यति।

डेबरा, सबंग तथा एगरा-क्षेत्रेषु टॉलीवुड-चलचित्र-जगतः प्रसिद्धे अभिनेत्री तथा रचनााबनर्जी अपि प्रचार-कार्ये प्रवृत्ते अभवताम्। तयोः रोड-शो तथा जनसभासु बहुला जनसमागमः दृष्टः। ताभ्यां राज्य-सर्वकारस्य जनकल्याण-योजनाः निर्दिश्य विकासस्य नाम्ना मतदानाय आह्वानं कृतम्।

एतस्मिन्नन्तरे दांतन-विधानसभा-क्षेत्रस्य मोहनपुर-प्रदेशे भारतीय जनतादलस्य प्रत्याशिनः अजीत जाना इत्यस्य समर्थनार्थं अपि विशालः निर्वाचन-कार्यक्रमः आयोजितः। अत्र मिथुनचक्रवर्तिनः रोड-शो विषये महान् उत्साहः दृष्टः।

रविवासरे प्रातःकालात् आरभ्य रात्रेः अन्तपर्यन्तं निरन्तरं रोड-शो तथा दलानां प्रमुख-प्रचारकाणां गत्यागत्यौ अभवताम्। रात्रौ अपि प्रशासनस्य नाका-जांचया सह वाहनानां स्थगनं कृत्वा विशेष-परीक्षण-अभियानं प्रवृत्तम् आसीत्। समग्रः मेदिनीपुर-प्रदेशः प्रचार-सभाभिः रोड-शोभिः च पूर्णतया आवृतः अभवत्, येन निर्वाचन-उत्साहः परम-सीमां प्राप्तवान्।

---------------

हिन्दुस्थान समाचार