अम्बिकापुरम् : भीमराव-रामजी-अम्बेडकर-महाभागस्य १३६तम-जन्मजयन्त्यां सरगुजा-जनपदे चतुर्थी प्रतिमा स्थापिताऽभूत्
अम्बिकापुरम्, १४ अप्रैलमासः। भीमराव-रामजी-अम्बेडकर-महाभागस्य १३६तम-जन्मजयन्त्याः अवसरे सरगुजा-जनपदस्य करम्हा-ग्रामे तस्य भव्य-प्रतिमायाः अनावरणं कृतम्। एषा जनपदे चतुर्थी प्रतिमा अस्ति, या सामाजिक-न्यायस्य समानतायाः च प्रतीकरूपेण स्थास्यति। कार्यक्
डॉ. भीमराव अंबेडकर की प्रतिमा का अनावरण


अम्बिकापुरम्, १४ अप्रैलमासः। भीमराव-रामजी-अम्बेडकर-महाभागस्य १३६तम-जन्मजयन्त्याः अवसरे सरगुजा-जनपदस्य करम्हा-ग्रामे तस्य भव्य-प्रतिमायाः अनावरणं कृतम्। एषा जनपदे चतुर्थी प्रतिमा अस्ति, या सामाजिक-न्यायस्य समानतायाः च प्रतीकरूपेण स्थास्यति।

कार्यक्रमे जनसमूहं सम्बोधयन् भाजपा-जनपद-अध्यक्षः भारत-सिंह-सिसोदिया भावपूर्णैः शब्दैः उक्तवान् यत् बाबासाहेबः दलितानां, शोषितानां, वञ्चितानां च अधिकार-प्राप्तये संविधान-रूपं शक्तिशालि-अस्त्रं प्रदत्तवान्, येन इतिहासस्य धारा परिवर्तिता। सः अपि अवदत् यत् अद्य जनपद-पञ्चायत-क्षेत्रे यानि मूलभूत-विकास-कार्याणि प्रचलन्ति—यथा मार्ग-जालस्य निर्माणम्, विद्युत्-जल-व्यवस्थायाः सुसञ्चालनम्—तानि सर्वाणि बाबासाहेबस्य ‘अन्त्योदय’-स्वप्नस्य परिपूर्तये एव सन्ति।

एतस्मिन् सन्दर्भे लुण्ड्रा-विधायकः प्रबोध-मिंज हिन्दू-कोड-बिल तथा आरक्षण-व्यवस्थाया: उल्लेखं कृत्वा उक्तवान् यत् बाबासाहेबस्य विचाराणां परिणामरूपेण अद्य नारी-सशक्तीकरणम् तथा आरोग्य-सुविधानां लाभः समाजस्य अन्तिम-जनपर्यन्तं प्राप्यते। सः ग्रामीणान् आह्वानम् अकरोत् यत् ते विकासस्य अस्य गतिं दृढीकर्तुं संकल्पं कुर्वन्तु।

कार्यक्रमे भाजपा-जनपद-अध्यक्षः भारत-सिंह-सिसोदिया तथा विधायकः प्रबोध-मिंजः उपस्थितौ आस्ताम्। ताभ्यां बाबासाहेबस्य आदर्शानां प्रशंसा कृता, विकास-कार्याणि च ‘अन्त्योदय’-स्वप्नस्य पूर्तिरितिः उक्तम्।

प्रतिमा-स्थापनस्य प्रयत्नः जनपद-पञ्चायत-सदस्या दिव्या-सिंह-सिसोदिया-नाम्न्या कृतः। समारोहे बहवः जनप्रतिनिधयः ग्रामीणाः च उपस्थिताः, सर्वे बाबासाहेबस्य मार्गे चलितुं संकल्पं कृतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता