Enter your Email Address to subscribe to our newsletters


भोपालनगरम्, १४ अप्रैलमास: (हि.स.)।भारतीय-संविधानस्य शिल्पकारः, महान्-चिन्तकः, सामाजिक-न्यायस्य प्रणेता च ‘बाबा-साहेब’ डॉ.भीमराव-आम्बेडकरस्य अद्य मङ्गलवासरे जयंती अस्ति। अस्मिन् अवसर-समये मध्यप्रदेशस्य मुख्यमंत्रीः डॉ.मोहन-यादवः बाबा-साहेब-आम्बेडकरं स्मरन् विनम्रं नमनं कृतवान्।
मुख्यमंत्रीः डॉ.यादवः सामाजिक-माध्यमे ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे अवदत् यत्— भारतीय-संविधानस्य शिल्पकाराय, सामाजिक-न्यायस्य प्रणेत्रे, ‘भारत-रत्न’-श्रद्धेयाय बाबा-साहेब-डॉ.भीमराव-अम्बेडकराय जयंती-अवसरे कोटि-कोटि नमनं करोमि। शिक्षा-समानताभ्यां माध्यमेन भवता महिला-सशक्तिकरणस्य प्रयासाः गतिं प्राप्तवन्तः। समता-न्याय-अधिकाराधारितस्य सशक्त-भारतस्य या नीव भवता स्थापिता, सा अद्यापि राष्ट्र-निर्माणस्य मार्गं प्रशस्तयति। वञ्चितानां, शोषितानां, अन्तिम-पङ्क्तौ स्थितानां च उत्थानाय भवतः संघर्षः विचाराश्च अस्माकं सर्वेषां कृते शाश्वत-प्रेरणास्रोतः अस्ति।
भाजपा-प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः अपि बाबा-साहेब-आम्बेडकरं जयंती-अवसरे स्मरन् नमनं कृतवान्। तेन स्वसन्देशे उक्तं यत्— भारतीय-संविधानस्य शिल्पकाराय, सामाजिक-न्यायस्य प्रणेते, भारत-रत्नाय श्रद्धेयाय बाबा-साहेब-डॉ.भीमराव-आम्बेडकराय जयंती-अवसरे कोटि-कोटि नमनम्। शोषितानां वञ्चितानां च उत्थानाय तथा राष्ट्र-निर्माणाय भवतः योगदानं सर्वदा अस्मान् प्रेरयिष्यति।
उल्लेखनीयम् अस्ति यत् डॉ.भीमराव-आम्बेडकरस्य जन्म १४ अप्रैलमासे १८९१ तमे वर्षे मध्यप्रदेशस्य महू-नगरे अभवत्। अस्य वर्षस्य एषा १३५मी जयंती आचर्यते। सः अधिवक्ता, अर्थशास्त्री, राजनीतिज्ञः तथा महान् समाज-सुधारकः अपि आसीत्। सः भारतीय-संविधानस्य प्रारूप-समितेः अध्यक्षः आसीत्। सः समाजे व्याप्तस्य छुआछूत-भेदभावयोः विरुद्धं जीवनपर्यन्तं संघर्षं कृतवान्। आम्बेडकरः लक्षाधिकान् जनान् शिक्षा-अधिकारौ प्रति जागरूकं कृतवान् तथा भारताय लोकतान्त्रिक-समानता-आधारितं संविधानं दत्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता