Enter your Email Address to subscribe to our newsletters

खड़गपुरम्, 14 अप्रैलमासः (हि. स.)।फिरहाद हाकिमः सोमवासरे सायंकाले खड्गपुरस्य इन्दा-ईदगाह-क्रीडांगणे तृणमूल-काङ्ग्रेस-दलस्य अभ्यर्थिनः प्रदीप-सर्वकारस्य समर्थनार्थं जनसभां सम्बोधितवान्। अस्मिन् अवसरॆ सः दिलीप-घोषस्य विरुद्धं तीक्ष्णं प्रहारं कृतवान्, उक्तवान् च यत् सः कदाचित् तृणमूल-काङ्ग्रेस-दले सम्मिलितुं इच्छति स्म।
हाकिममहाशयः अवदत् यत् यः व्यक्ति अद्य अभ्यर्थी अस्ति, सः पूर्वम् अस्य क्षेत्रस्य सांसदः आसीत्, किन्तु आकस्मिकतया तं तस्मात् स्थानात् निष्कास्य दुर्गापुरं प्रेषितम्, यत्र तेन पराजयः अनुभूतः। ततः निराशः सन् सः उक्तवान् यत् भाजपा-दले स्थितिः असम्भवा, यदि तृणमूल-स्थानं ददाति तर्हि सः तत्र प्रविशेत्। परं प्रधानमन्त्री नरेन्द्र-मोदी-महोदयेन सह मिलित्वा तस्य दृष्टिकोणः परिवर्तितः, पुनः तस्मै निर्वाचन-टिकट् दत्तम् इति सः व्यङ्ग्येन उक्तवान्।
मतदातृ-सूच्याः नाम-अपसारण-विषये अपि हाकिममहाशयः भाजपा-दलं आलोचितवान्। सः अवदत् यत् येषां नामानि सूच्याः अपसारितानि, तान् देशद्रोहिणः इति कथनं मिथ्या। तस्य मतानुसारं ये संविधानस्य सम्मानं न कुर्वन्ति तथा अष्टादशवर्षात् अधिकानां नागरिकानां मतदान-अधिकारं हर्तुं प्रयतन्ते, ते एव वास्तविकाः देशद्रोहिणः सन्ति। यदि २०२४-वर्षस्य निर्वाचनं अस्यैव सूच्याः आधारेण अभवत्, तर्हि अधुना तस्यां संशयः किमर्थम् इति सः प्रश्नं कृतवान्।
प्रधानमन्त्रिणः नरेन्द्र-मोदी-महोदयस्य विषये आलोचनां कुर्वन् सः अवदत् यत् पूर्वप्रधानमन्त्री अटल-बिहारी-वाजपेयी सर्वैः सम्मानितः आसीत्, किन्तु तस्य भाषा ‘शोले’ चलचित्रस्य गब्बर-सिंह इव दृश्यते। सः आरोपं कृतवान् यत् भाजपा तृणमूल-दलाय ‘चार्जशीट्’ ददाति, यद्यपि एतत् अधिकारः केवलं पुलिस-विचारण-संस्थाभ्यः भवति।
केन्द्रीयगृहमन्त्रिणः अमित-शाहस्य नाम निर्दिश्य सः अवदत् यत् कदाचित् सीबीआई तं गिरफ्तारवती, परं पश्चात् तस्मै क्लीन-चिट् दत्ता। सः अपि पृष्टवान् यत् भाजपा अन्येषां विषये आरोपान् करोति, किन्तु स्वनेतॄणां विषयेषु किं जातम्।
हाकिममहाशयः अन्येषु राज्येषु बाङ्ग्ला-भाषां भाषमाणानां प्रवासी-श्रमिकाणां प्रति आक्रमणानां आरोपं कृतवान्। सः उक्तवान् यत् बङ्गालस्य जनाः भारतीय-बाङ्ग्लीयाः सन्ति, न तु बाङ्ग्लादेशीयाः।
राज्यशासनस्य कार्याणि निर्दिश्य सः अवदत् यत् जङ्गमहल-प्रदेशे पूर्वम् आदिवासी-जनाः उदरपूर्तये कीट-अण्डानि वन-लता-पत्राणि च खादितवन्तः, किन्तु मुख्यमन्त्री ममता-बनर्जी-महोदयायाः विकास-योजनाभिः अद्य तेषां स्थितिः सुधृता, ते च सम्मानपूर्वकं जीवनं यापयन्ति। सा केवलं कस्यचित् एकस्य समुदायस्य कृते न, अपि तु सर्वेषां विकासाय कार्यं करोति इति सः अवदत्।
एतस्मिन् विषये प्रत्युत्तरं दत्त्वा दिलीप-घोषः उक्तवान् यत् तृणमूल-दलस्य स्थिति अद्य निष्प्रयोजनस्य मुद्रायाः सदृशी जाता। सः तं ‘डस्टबिन’ इति उक्त्वा आरोपं कृतवान् यत् दलः अत्यन्तं दूषितः जातः, यतः तस्मात् मत्स्य-आपण-सदृशी दुर्गन्धा आगच्छति। सः अपि अवदत् यत् राज्ये शिक्षा, स्वास्थ्यं, जीविकार्थं जनाः अन्येषु राज्येषु गन्तुं बाध्यन्ते।
---------------
हिन्दुस्थान समाचार