मध्यप्रदेशे दशमी-द्वादशी-कक्ष्ययोः बोर्ड-परीक्षायाः परिणामः १५ अप्रैलमासे प्रकाशितः भविष्यति
भोपालनगरम्, १३ अप्रैलमास: (हि.स.)।मध्यप्रदेशे माध्यमिक-शिक्षा-मण्डलेन अस्मिन् वर्षे आयोजितायाः कक्षा-दशमी-कक्षा-द्वादशी-बोर्ड-परीक्षायाः परिणामः १५ अप्रैलमासे प्रातः ११ वादने प्रकाशितः भविष्यति। मुख्यमंत्रीः डॉ.मोहन-यादवः विशेष-प्रेस-सम्मेलनस्य माध
एमपी बोर्ड


भोपालनगरम्, १३ अप्रैलमास: (हि.स.)।मध्यप्रदेशे माध्यमिक-शिक्षा-मण्डलेन अस्मिन् वर्षे आयोजितायाः कक्षा-दशमी-कक्षा-द्वादशी-बोर्ड-परीक्षायाः परिणामः १५ अप्रैलमासे प्रातः ११ वादने प्रकाशितः भविष्यति। मुख्यमंत्रीः डॉ.मोहन-यादवः विशेष-प्रेस-सम्मेलनस्य माध्यमेन उभयोः कक्षयोः परिणामं युगपत् घोषितुं करिष्यति।विद्यालय-शिक्षामन्त्री उदय-प्रताप-सिंहः सोमवासरे अवदत् यत् परिणामेन सह उभयोः कक्षयोः मेरिट्-सूची (टॉपर्स-सूची) अपि प्रकाशितः भविष्यति। राज्य-स्तरे सर्वोच्चस्थानं प्राप्तवन्तः मेधाविनः छात्राः सर्वकारेण विशेषरूपेण सम्मानिताः भविष्यन्ति। छात्राणां परिणामं द्रष्टुं केवलं स्वस्य अनुक्रमांक: आवश्यक: भविष्यति। परिषदा उत्तरपुस्तिकानां मूल्याङ्कनकार्यं तथा पटल-मध्ये विवरणानां प्रवेशनकार्यं पूर्वमेव सम्पन्नम्।

सः अवदत् यत् परिणामप्रकाशनात् पूर्वं पुन:निरीक्षणं तथा सत्यापनकार्यं शीघ्रगत्या सम्पन्नम्। सर्वेषु स्तरषु सूक्ष्मपरीक्षणं कृतम्, येन काचिदपि त्रुटिः न भवेत्। परिणामः “पूर्णतया त्रुटिरहितः (फुलप्रूफ)” इति सुनिश्चितः कृतः अस्ति, येन छात्रेभ्यः काचनापि असुविधा न भवेत्।प्रदेशे दशमी-कक्षायां नव-लक्षाधिकाः छात्राः सम्मिलिताः। दशमी-द्वादशी-परीक्षयोः मिलित्वा षोडश-लक्षाधिकाः छात्राः भागं गृहीतवन्तः। परीक्षार्थं ३८५६ केन्द्राणि स्थापितानि। नकलनिवारणाय फ्लाइङ-स्क्वॉड्, सीसीटीवी तथा प्रश्नपत्रवितरणस्य वीडियोग्राफी व्यवस्था कृता। तथापि प्रदेशे प्रायः शताधिकाः नकल-प्रकरणानि समागतानि, येषु मुरैणायां ४१ तथा भोपालनगरे २० प्रकरणानि अभिलेखितानि।

चिकित्सकाः तथा परामर्शदातारः अभिभावकेभ्यः अपीलं कृतवन्तः यत् ते बालकेषु बलं न कुर्वन्तु, अपितु मानसिक-सहयोगं प्रददतु। गांधी-मेडिकल-कॉलेजस्य डॉ.रुचि-सोनी अवदत् यत् प्रत्येकः बालकः उत्तम-परिणामम् इच्छति, किन्तु सर्वदा तत् सम्भवं न भवति। एकः परीक्षा जीवनं न निर्धारयति। बालकानां चिन्तास्थितौ तैः सह संवादः करणीयः, तेषां च सहायता कर्तव्या।

शिक्षा-विभागस्य उद्देश्यं समये परिणामप्रकाशनं कृत्वा छात्राणां अग्रिम-कक्ष्यायां अथवा पाठ्यक्रमे प्रवेशः सुकरः भवेत् इति अस्ति। समये परिणामप्रकाशनेन छात्रेभ्यः अभिभावकेभ्यः च शिथिलता भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता