Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १४ अप्रैलमासः (हि.स.)।सम्प्रति सम्पूर्णे राज्ये रंगाली-बिहू-उत्सवस्य महान् उमङ्ग: उल्लासश्च व्याप्तः अस्ति। असमराज्यस्य जातीयपर्व रंगाली-बिहू इत्यस्य प्रथमदिने अद्य गोरु-बिहू इति पर्व आचर्यते। अस्मिन् अवसर-समये कृषकाः स्व-गोधनं नदीषु, तडागेषु, जलाशयेषु च स्नापयन्ति तथा च पारम्परिकरीत्या तेषां आरोग्यस्य समृद्धेः च कामनां कुर्वन्ति। राज्यस्य ग्रामे ग्रामे अद्य गोरु-बिहू-पर्वण: उत्साहपूर्णं वातावरणं दृश्यते।
असमिया-संस्कृतेः महत्त्वपूर्णेषु पर्वसु अन्यतमं बहाग-बिहू इति पर्व इदानीं ग्रामान्, नगराणि, महानगराणि च उत्सवमयानि करोति। मृदंग-वादनस्य, पेपा-वादनस्य, गगना-नादस्य च गुञ्जनस्य मध्ये युव-युवतयः बिहू-नृत्ये, गीतेषु च निमग्नाः सन्ति। सर्वत्र बिहू-उत्सवस्य सज्जा दृश्यते, तथा च प्रियजनानां प्रति उपहाररूपेण “बिहुवानम्” (गमछा) दानस्य परम्परा अपि प्रचलिता अस्ति।
चैत्र-सङ्क्रान्त्या (१४ अप्रैलमासः) आरभ्यमाणः अयं पारम्परिकः पर्वः असमिया-समाजाय विशेषमहत्त्वं धारयति। उरुकायाः अनन्तरं अद्य गोरु-बिहू आचर्यते, श्वः च मानुह-बिहू आचर्यते, यस्मिन् दिने जनाः परस्परं आशीर्वादं गृह्णन्ति, सम्मानं च प्रकटयन्ति।
कृषिकार्यस्य आरम्भेन सम्बद्धे अस्मिन् पर्वणि प्रकृतेः उर्वरतायाः समृद्धेः च कामना क्रियते। कालेन सह बिहू-पर्व आधुनिकरूपम् अपि प्राप्तवान्, तथापि अस्य पारम्परिक-मूलानि अद्यापि सुदृढानि सन्ति। अस्मिन् काले असमराज्यस्य जनाः सर्वान् चिन्ताः विस्मृत्य पूर्णोत्साहेन रंगाली-बिहू-स्वागत-उत्सवयोः निमग्नाः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता