भाजपा प्रदेश-कार्यालये ‘सेवा-प्रकल्प’स्य शुभारम्भः अद्य, मुख्यमंत्री-प्रदेशाध्यक्षौ करिष्यतः उद्घाटनम्
भारतीय-जनता-पक्षस्य भाजपा-प्रदेश-कार्यालये कार्यकर्तृभ्यः तेषां परिवारजनैः सह शीघ्रं सुगमं च चिकित्सीय-सहाय्यं प्रदातुं उद्देश्येन ‘सेवा-प्रकल्पः’ इत्यस्य शुभारम्भः अद्य मङ्गलवासरे सायं ५ वादने क्रियते। एष: प्रयत्न: भाजपा-चिकित्सा-प्रकोष्ठेन प्रारभ
भाजपा प्रदेश कार्यालय


भारतीय-जनता-पक्षस्य भाजपा-प्रदेश-कार्यालये कार्यकर्तृभ्यः तेषां परिवारजनैः सह शीघ्रं सुगमं च चिकित्सीय-सहाय्यं प्रदातुं उद्देश्येन ‘सेवा-प्रकल्पः’ इत्यस्य शुभारम्भः अद्य मङ्गलवासरे सायं ५ वादने क्रियते। एष: प्रयत्न: भाजपा-चिकित्सा-प्रकोष्ठेन प्रारभ्यते।

कार्यक्रमस्य उद्घाटनं मुख्यमंत्रीः डॉ.मोहन-यादवः, भाजपा-प्रदेशाध्यक्षः तथा विधायकः हेमन्त-खण्डेलवालः, उपमुख्यमंत्रीः राजेन्द्र-शुक्लः च करिष्यन्ति। अयं कार्यक्रमः संविधान-निर्माता बाबा साहेब डॉ. भीमराव-अम्बेडकरस्य जयंती-अवसरे आयोज्यते।‘सेवा-प्रकल्पः’ इत्यस्य शुभारम्भ-अवसरे ९२०३५९७२०० तथा ९२०३६९७२०० इति दूरभाष-सङ्ख्ये अपि प्रकाशिते भविष्यतः। एतेषु दूरभाष-सङ्ख्यासु सम्पर्कं कृत्वा कार्यकर्तारः तथा तेषां परिवारजनाः चिकित्सीय-सूचना प्राप्तुं शक्नुवन्ति।

भाजपा-चिकित्सा-प्रकोष्ठस्य प्रदेश-संयोजकः डॉ.विशाल-सिंह-बघेलः अवदत् यत् “सर्वे जनाः स्वस्थाः भवन्तु, स्वस्थ-कार्यकर्तृभिः सशक्त-सङ्गठनम्” इति भावनया एष: प्रयत्न: क्रियते। प्रधानमन्त्रिणः नरेन्द्र-मोदी-महोदयस्य “सबका साथ, सबका विकास, सबका विश्वास” इति संकल्पस्य पूर्तिदिशि एषः महत्त्वपूर्णः चरणः अस्ति।

अस्य प्रकल्पस्य माध्यमेन आवश्यकेभ्यः कार्यकर्तृभ्यः शीघ्र-चिकित्सीय-सहायता प्रदास्यते तथा च मुख्यमंत्री-सहायता-कोषात् एवं स्वेच्छा-अनुदान-योजनाभ्यः आर्थिक-सहायता उपलब्धा भविष्यति।

प्रदेश-कार्यालये एकः विशेष-कक्षः अपि स्थापितः अस्ति, यत्र अनुभवी-चिकित्सा-विशेषज्ञाः स्वास्थ्य-परामर्शं, प्राथमिक-मार्गदर्शनं तथा आवश्यक-सलाहां दास्यन्ति। अस्मिन् प्रकल्पे आयुष्मान-भारत-योजना, राहगीर-योजना तथा अन्य-सरकारी-स्वास्थ्य-सेवानां विषये सूचना अपि प्रदास्यते। आवश्यकता-समये रक्तदान-दलं सेवा-दलं च सक्रियं भविष्यति।

सहायता-प्राप्त्यर्थं प्रदेश-कार्यालये सहायता-सेवा-केन्द्रं प्रारभ्यते, यत्र निर्धारित-समये कार्यकर्तारः उपस्थिताः भूत्वा सूचना-सहाय्यं प्राप्स्यन्ति।

भाजपा-चिकित्सा-प्रकोष्ठेन उक्तं यत् आवेदन-प्रक्रिया सरल-प्रवहमान-च पारदर्शिनी कृता अस्ति। आवेदनपत्रं, चिकित्सकीय-प्रमाणपत्रं अथवा अनुमानित-व्यय-विवरणं, आय-प्रमाणपत्रं, परिचय-पत्रं च आधारभूत-तथ्यरूपेण ग्राह्याणि सन्ति। ततः सत्यापनं, चिकित्सालयैः सह पुष्टि, पात्रतानुसारं मुख्यमंत्री-सहायता-कोषाय प्रस्तावः, त्वरित-अनुशंसा च क्रियते।

गम्भीर-रोगाः यथा कर्कट-रोगः, हृदय-रोगः, वृक्क-सम्बद्ध-रोगाः च प्राथमिकतायां स्थाप्यन्ते। प्रकल्पस्य संचालनाय शासन-तथा-संबद्ध-विभागैः समन्वयः स्थापितः भविष्यति तथा सर्वेषां आवेदनानां अभिलेख-निगमन-व्यवस्था (ट्रैकिंग) अपि क्रियते। अस्य प्रकल्पस्य सूचना बूथ-स्तरं यावत् सामाजिक-माध्यमैः, मुद्रित-माध्यमैः, सभाभि: च प्रसारिता भविष्यति। शीघ्रमेव अस्य कृते दूरभाषतन्त्रांश: अपि प्रारभ्स्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता