रायपुरनगरम् : मुख्यमन्त्रिणा ५१५ प्राथमिक-कृषि-साख-सहकारी-समितिनां वर्चुअल-उद्घाटनं कृतम्
रायपुरनगरम्, १५ अप्रैलमासः (हि.स.)। मुख्यमन्त्रिणा विष्णुदेव-सायेन अद्य बुधवासरे नव-रायपुर-स्थितात् मंत्रालय-महानदी-भवनात् प्रदेशस्य नवगठितानां ५१५ प्राथमिक-कृषि-साख-सहकारी-समितिनां (पैक्स) वर्चुअल-उद्घाटनं कृतम्। तेन एतत् कृषकाणां कृते महान्तम् उ
प्राथमिक कृषि साख सहकारी समितियों (पैक्स) का वर्चुअल शुभारंभ करते हुए मुख्यमंत्री विष्णुदेव साय


रायपुरनगरम्, १५ अप्रैलमासः (हि.स.)। मुख्यमन्त्रिणा विष्णुदेव-सायेन अद्य बुधवासरे नव-रायपुर-स्थितात् मंत्रालय-महानदी-भवनात् प्रदेशस्य नवगठितानां ५१५ प्राथमिक-कृषि-साख-सहकारी-समितिनां (पैक्स) वर्चुअल-उद्घाटनं कृतम्।

तेन एतत् कृषकाणां कृते महान्तम् उपहारम् इति उक्त्वा “सहकारेण समृद्धिः” इति संकल्पस्य साकारकरणे एषः पगः ऐतिहासिकः इति प्रतिपादितः।

मुख्यमन्त्रिणा उक्तं यत् एतासां नवसमितिनां प्रारम्भेन अधुना सम्पूर्णे प्रदेशे सहकारी-समितिनां संख्या २ सहस्रं ५७३ पर्यन्तं वर्धिता अस्ति। सः प्रदेशस्य अन्नदातॄन् कृषकान् शुभकामनाः दत्त्वा अवदत् यत् शासनं कृषिकार्ये आधुनिक-प्रौद्योगिक्याः सहकारिता-आधारित-नवाचारस्य च प्रवर्धनं करोति, येन ग्रामाः कृषकाः च समृद्धाः भवन्ति।

सः अवदत् यत् अद्यतन-पैक्स-समितयः बहुउद्देश्यीय-संस्थारूपेण कार्यं करिष्यन्ति, येन कृषकाः स्वग्रामे एव खाद्य-बीज-अल्पकालीन-ऋणादीनि सुविधाः प्राप्तुं शक्नुवन्ति। धान-विक्रय-प्रक्रिया अपि सुकरा भविष्यति, कृषकाः स्वनिकट-समितौ एव धानं विक्रेतुं शक्नुवन्ति।

मुख्यमन्त्रिणा इदमपि सूचितं यत् पूर्वं कार्यरताः २०५८ समितयः उत्तम-सेवायै सङ्गणकीकृताः सन्ति तथा च तासु माइक्रो-एटीएम यन्त्राणि स्थापितानि, यैः कृषकाः २० सहस्र-रूप्यकपर्यन्तं धनराशिं निष्कासयितुं शक्नुवन्ति।

सः अवदत् यत् नवगठितासु ५१५ समितिषु १९७ समितयः आदिवासी-क्षेत्रेषु स्थापिताः सन्ति, येन दूरवर्ती-कृषकाः प्रत्यक्षं लाभं प्राप्नुयुः। एताः समितयः केवलं उर्वरक-बीज-वितरणे न सीमिताः भविष्यन्ति, अपि तु दुग्ध-उत्पादनं मत्स्यपालनं च इत्यादिभिः सहायक-कृषि-गतिविधिभिः अपि योजिताः भविष्यन्ति।

तथा च एतासु समितिषु लोक-सेवा-केन्द्राणि अपि प्रारभ्स्यन्ते, यत्र एकस्मिन्नेव स्थाने २५ अधिकाः सर्वकारी-सेवाः उपलब्धाः भविष्यन्ति। मुख्यमन्त्रिणा कृषकान् प्रति अपि आह्वानं कृतं यत् ते समितिनां सदस्याः भूत्वा अस्याः अधिकतमं लाभं गृह्णीयुः तथा च संचालन-प्रक्रियायां सक्रिय-सहभागितां कुर्वन्तु।

अस्मिन् अवसरे सहकारिता-मन्त्री केदार-कश्यपः वर्चुअल-रूपेण उपस्थितः आसीत्। तथा च कृषि-मन्त्री रामविचार-नेतामः, स्वास्थ्य-मन्त्री श्याम-बिहारी-जयसवालः, उद्योग-मन्त्री लखनलाल-देवांगनः, शिक्षा-मन्त्री गजेन्द्र-यादवः, पर्यटन-मन्त्री राजेश-अग्रवालः, रोजगार-कौशल-विकास-मन्त्री गुरु-खुशवंत-साहेबः, अपेक्स-बैंक-अधिकारी केदारनाथ-गुप्तः, मुख्यमन्त्रिणः सचिवः राहुल-भगतः, सहकारिता-सचिवः सी.आर. प्रसन्नः, सहकारिता-विभागस्य प्रबन्ध-संचालकः के.एन.कांडे इत्येतैः च सह विभिन्न-जनपदेभ्यः प्रायः २५०० जनप्रतिनिधयः, कृषकाः, अधिकारिणश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता