Enter your Email Address to subscribe to our newsletters

—ऋचा-सिंह:
प्रतिवर्षम् अप्रैल-मासे विद्यालय-द्वारे नूतनं सत्रम् आगच्छति। पुस्तकानि परिवर्तन्ते, वेशभूषा नूतना भवति, कक्षाः अपि नूतनाः भवन्ति; किन्तु किं अस्माकं चिन्तनम् अपि परिवर्तते? अस्मिन् सत्रे वयं बालकेभ्यः किं नूतनं, उपयोगी च दातुं शक्नुमः—एषः एव मुख्यः प्रश्नः। सत्र-परिवर्तनं केवलं पञ्चाङ्गस्य पृष्ठ-परिवर्तनं न, अपितु सिद्धतायाः सर्वोत्तमः कालः अस्ति। अप्रैल-मासस्य प्रभाते विद्यालय-घण्टा केवलं बालकान् न जागरयति, अपितु सम्पूर्णं समाजं नूतन-आरम्भस्य बोधं ददाति। एषः सत्रः केवलं पुस्तिका-परिवर्तनस्य कालः न, किन्तु राष्ट्रीय-शिक्षा-नीतिः २०२० इत्यस्य परिवर्तनस्य प्रारम्भः अस्ति।
शिक्षक-अभिभावक-बालकानां मध्ये या शिक्षण-यात्रा प्रवर्तते, सा रोचिका सरला च भवेत्—एषा सर्वेषां सामूहिकं दायित्वम् अस्ति। यदि अस्मिन् वर्षे शिक्षकाः अभिभावकाः च स्व-भूमिकायां परिवर्तनं कुर्वन्ति, तर्हि शिक्षणं सुलभं, सहजं, रोचकं च भविष्यति।
शिक्षकाणां कृते ‘नूतनम्’ किम्?शिक्षकाः केवलं उपदेशकाः न, अपि तु मार्गदर्शकाः भवन्तु। पाठन-पद्धतिः व्याख्यानात् अनुभवाधारित-शिक्षणं प्रति परिवर्तनीयम्। “अनुभवात् अवधारणा” इति सिद्धान्तः स्वीकरणीयः। ‘बैग-लेस-दिवसः’ केवलं विश्रामाय न, अपितु कौशल-विकासाय उपयोगनीयः। प्रत्येकं बालकस्य ‘अधिगम-मानचित्रम्’ (Learning Map) निर्मीयताम्, यत्र तस्य समग्र-विकासः निर्दिश्यते। मूल्याङ्कनं भयजनकं न, मार्गदर्शकं भवेत्।
अभिभावकानां कृते ‘नूतनम्’ किम्?गृहम् अपि विद्यालयस्य विस्तारः भवेत्। केवलं अङ्कान् न पृच्छन्तु, अपि तु “किं नूतनं अधीतवान्?” इति जिज्ञासां कुर्वन्तु। तुलना-प्रवृत्तिं परित्यजन्तु। प्रत्येकः बालकः अद्वितीयः अस्ति—तस्य प्रतिभा ज्ञातव्या, पोषणीया च। डिजिटल-उपयोगे सन्तुलनं आवश्यकम्।
बालकानां कृते शिक्षणं कथं रोचकं भवेत्?कक्षा ‘संवाद-गृह’ भवेत्, यत्र प्रश्नाः स्वाभाविकाः स्युः। पाठ्यवस्तु जीवनेन सह सम्बद्धा भवेत्। परियोजना-आधारित-शिक्षणं, क्रीडा, कला, योगः च अनिवार्याः स्युः। स्व-मूल्याङ्कनस्य अभ्यासः अपि विकसितव्यः।
एवं शिक्षक-अभिभावक-बालकानां त्रिकोणः दृढः चेत्, शिक्षायाः पूर्णता सम्भवति। यदि शिक्षकः कक्षां प्रयोगशालां करोति, अभिभावकः गृहं प्रथम-विद्यालयं मन्यते, बालकः च निर्भयतया प्रश्नान् पृच्छति—तर्हि भविष्ये ‘कौशल-अभावः’ तथा ‘बेरोजगारी’ इत्यादयः समस्याः न्यूनाः भविष्यन्ति।
अतः नूतनं सत्रं नूतन-कार्ययोजनायाः अवसरः अस्ति। लेखनी अस्माकं हस्ते अस्ति, मार्गदर्शनं अपि उपलब्धम्। अधुना अस्माकं कर्म एव दर्शयिष्यति यत् वयं कियत् निष्ठावन्तः स्मः।
हिन्दुस्थान समाचार / अंशु गुप्ता