झारखंडे विज्ञान क्वीज प्रतियोगिताययाः भविष्यति आयोजनं, मंत्रिमंडलं 53 आह प्रस्तावेभ्योऽददात् सहमतिम्
रांची, 15 अप्रैलमासः (हि.स.)। झारखण्डसर्वकारेण विद्यार्थिषु विज्ञानविषये रुचिं नवोन्मेषं च प्रवर्धयितुं राज्यस्तरीया प्रश्नोत्तरीस्पर्धा आयोजयितुं निर्णयः कृतः। अयं निर्णयः बुधवासरे प्रोजेक्टभवने आयोजितायां मन्त्रिमण्डलगोष्ठ्यां स्वीकृतः। मन्त्रिम
वंदना दादेल की फाइल फोटो


रांची, 15 अप्रैलमासः (हि.स.)। झारखण्डसर्वकारेण विद्यार्थिषु विज्ञानविषये रुचिं नवोन्मेषं च प्रवर्धयितुं राज्यस्तरीया प्रश्नोत्तरीस्पर्धा आयोजयितुं निर्णयः कृतः। अयं निर्णयः बुधवासरे प्रोजेक्टभवने आयोजितायां मन्त्रिमण्डलगोष्ठ्यां स्वीकृतः।

मन्त्रिमण्डलसचिवा वन्दना दादेल महोदया उक्तबैठके गृहीतानां निर्णयानां विवरणं दत्त्वा अवदत् यत् एषा स्पर्धा उद्भवमानप्रौद्योगिकीविषये आधारित “विज्ञानप्रौद्योगिकीप्रश्नोत्तरी” भविष्यति। एषा स्पर्धा त्रिषु भिन्नवर्गेषु आयोजिता भविष्यति। प्रथमः वर्गः अष्टमदशमकक्षायाः विद्यार्थिनां कृते, द्वितीयः वर्गः एकादशद्वादशकक्षा आईटीआईविद्यार्थिनां कृते, तथा तृतीयः वर्गः पॉलिटेक्निकसंस्थासु अध्ययनरतविद्यार्थिनां कृते निर्धारितः अस्ति।

तया उक्तं यत् अस्यां स्पर्धायां रोबोटिक्स जैवप्रौद्योगिकी कृत्रिमबुद्धिमत्ता इत्यादिषु आधुनिकविषयेषु प्रश्नाः पृच्छ्यन्ते। विजेतृभ्यः आकर्षकपुरस्काराः अपि प्रदास्यन्ते, यत्र प्रथमपुरस्कारः पञ्चाशत्सहस्ररूप्यकाणि, द्वितीयपुरस्कारः त्रिंशत्सहस्ररूप्यकाणि, तृतीयपुरस्कारः विंशतिसहस्ररूप्यकाणि च निर्धारिताः सन्ति।

मन्त्रिमण्डलबैठके कुलं त्रिपञ्चाशत्प्रस्तावाः अनुमोदिताः। अतिरिक्तरूपेण राज्यस्य उच्चतकनीकीसंस्थासु अध्ययनरतविद्यार्थिनां कृते “सरज्ञानेंद्रचन्द्रघोषयोजना” नाम योजना अपि स्वीकृता, यस्याः अन्तर्गतं राष्ट्रीयगणितदिवसः राष्ट्रियविज्ञानदिवसश्च आयोज्यन्ते।

तथैव झारखण्डरोबोटिक्सउत्सवस्य आयोजनम् अपि अनुमोदितम्, यस्मिन् दशविधेषु वर्गेषु रोबोटपरिकल्पनाः सम्मिलिताः भविष्यन्ति।

अतिरिक्ततया राँची धनबाद डाल्टनगंज न्यायमण्डलेषु स्थापितेषु त्रिषु विशेषन्यायालयेषु जिलान्यायाधीशस्तरस्य त्रयाणां नवीनपदानां सृष्टिः अपि अनुमोदिता।--------------

हिन्दुस्थान समाचार