नेपाल-देशेन खाड़ी-प्रदेशस्य चतुर्षु देशेषु श्रम-अनुमतिः पुनः आरब्धा
काठमाण्डू-नगरम्, १५ अप्रैलमासः (हि.स.)। नेपाल-देशस्य वैदेशिक-रोजगार-विभागेन युद्ध-कारणेन पूर्वं स्थगितेषु चतुर्षु देशेषु श्रम-अनुमतिः पुनः प्रदातुं आरब्धा। विभागस्य अनुसारम् इजरायल्, कुवैत्, बहरीन, लेबनान इत्येतेषु देशेषु पुनः श्रमिक-प्रेषणाय अनुमत
नेपाल का वैदेशिक श्रम रोजगार विभाग


काठमाण्डू-नगरम्, १५ अप्रैलमासः (हि.स.)। नेपाल-देशस्य वैदेशिक-रोजगार-विभागेन युद्ध-कारणेन पूर्वं स्थगितेषु चतुर्षु देशेषु श्रम-अनुमतिः पुनः प्रदातुं आरब्धा। विभागस्य अनुसारम् इजरायल्, कुवैत्, बहरीन, लेबनान इत्येतेषु देशेषु पुनः श्रमिक-प्रेषणाय अनुमतिः प्रदत्ता।

पूर्वमेव श्रम-रोजगार-सामाजिक-सुरक्षा-मन्त्रालयस्य निर्णयानुसारं सऊदी-अरब, संयुक्त-अरब-अमीरात्, कतार, ओमान, यमन, जॉर्डन, टर्की इत्यादिषु देशेषु अपि श्रम-अनुमतिः पुनः आरब्धा आसीत्। अधुना चतुर्षु देशेषु अपि तस्याः विस्तारः कृतः।

विभागेन उक्तं यत् इराक-देशस्य विषये मन्त्रिपरिषदः १ जनवरी-दिने कृतस्य निर्णयस्य अनुसारं श्रम-अनुमतिः प्रदास्यते, यस्य सम्बन्धे १३ अप्रैल-दिने मन्त्रालयेन निर्णयः कृतः।

हिन्दुस्थान समाचार / अंशु गुप्ता