युवा-उत्सव-२०२६ भव्यतया आयोजयितुं सज्जा तीव्रा, अन्तर-महाविद्यालय-प्रतियोगितया प्रतिभाः विकसिष्यन्ति
धमतरी-नगरम्, १५ अप्रैलमासः (हि.स.)। यूनां सर्वाङ्गीण-विकासाय आयोजितस्य “युवा-उत्सव-२०२६ – अन्तर-महाविद्यालय-प्रतियोगिता” इत्यस्या: आयोजनस्य सिद्धताः तीव्रतां गताः। उपायुक्त: अभिनाश-मिश्रः सभां कृत्वा व्यवस्थायाः विस्तृत-समीक्षां कृतवान्। अस्य उत्स
बैठक को संबोधित करते हुए अबिनाश मिश्रा।


धमतरी-नगरम्, १५ अप्रैलमासः (हि.स.)। यूनां सर्वाङ्गीण-विकासाय आयोजितस्य “युवा-उत्सव-२०२६ – अन्तर-महाविद्यालय-प्रतियोगिता” इत्यस्या: आयोजनस्य सिद्धताः तीव्रतां गताः। उपायुक्त: अभिनाश-मिश्रः सभां कृत्वा व्यवस्थायाः विस्तृत-समीक्षां कृतवान्।

अस्य उत्सवस्य आयोजनं २४-२५ अप्रैल-दिनयोः भविष्यति, यत्र वाद-विवादः, नृत्यम्, गायनम्, प्रश्नोत्तरी, क्रीडाः इत्यादयः बहवः विभागाः सन्ति। एतत् आयोजनं प्रतिभानां विकासाय महत्त्वपूर्णं मंचं भविष्यति इति उक्तम्।

अन्ते विद्यार्थिभ्यः उत्साहेन सहभागितायाः आह्वानं कृतम् तथा एतादृश-प्रतियोगिताभिः आत्मविश्वासः, नेतृत्व-क्षमता, समूहमेलनं च वर्धते इति प्रतिपादितम्।

हिन्दुस्थान समाचार / अंशु गुप्ता