Enter your Email Address to subscribe to our newsletters



लखनऊ-नगरम्, १५ अप्रैलमासः (हि.स.)। उत्तर-प्रदेशस्य मुख्यमन्त्रिण: योगी-आदित्यनाथस्य नेतृत्वे औद्योगिक-विकासाय अनुकूल-वातावरणं निर्मितम् इति निर्दिश्य टाटा-संस्थाध्यक्षः एन.-चन्द्रशेखरन् लखनऊतः गोरखपुर-पर्यन्तं विविध-निवेश-घोषणाः कृतवान्। एतेन राज्ये रोजगार-अवसराः वर्धिष्यन्ते तथा औद्योगिक-विकासः तीव्रतां गमिष्यति।
लखनऊ-स्थले टाटा-मोटर्सस्य दश-लक्षतमं वाहनं प्रेषितम् तथा उद्योग-विस्तारस्य योजनाः उद्घोषिताः। आगामि-पञ्चवर्षेषु टीसीएस-विभागेषु चत्वारिंशत्-सहस्र-व्यावसायिकानां नियोजनस्य लक्ष्यं निर्धारितम्।
एआई-जागरूकताभियाने गोरखपुरे विश्व-कीर्तिमानः स्थापितः। गिनीज-प्रतिनिधिना ऋषि-नाथेन मुख्यमन्त्रिणे योगी-आदित्यनाथाय तथा एन.-चन्द्रशेखराय प्रमाणपत्रं प्रदत्तम्। ‘एआई-फॉर-ऑल’ कार्यक्रमे सप्ताहे एव ७,६४,१८७ अन्तर्जाल-पंजीकरणानि अभवन्। अस्मिन् अवसरे प्रशिक्षण-कार्यक्रमस्यापि शुभारम्भः कृतः। अत्र ड्रोन-प्रौद्योगिकी, त्रि-आयामी-मुद्रणम्, कृत्रिम-बुद्धिमत्ता, अन्तरिक्ष-प्रौद्योगिकी, साइबर-सुरक्षा इत्यादिषु समन्वित-पाठ्यक्रमाः संचालिताः भविष्यन्ति।
गोरखपुरे टीसीएस-सहयोगेन पूर्वाञ्चलस्य प्रथम-उत्कृष्टता-केन्द्रस्य उद्घाटनं कृतम्। एआई-जागरूकता-अभियाने गोरखपुरस्य नाम गिनीज्-वर्ल्ड-रिकॉर्ड्स-पुस्तके अभिलिखितम्।
एताः घोषणाः उत्तर-प्रदेशस्य अर्थव्यवस्थां सुदृढीकर्तुं तथा विकसित-भारत-लक्ष्ये योगदानं दातुं महत्त्वपूर्णाः इति उक्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता