मतदाता-सूच्याः केवलं अवैधप्रवेशकानां नामानि अपासारितानि, अधुना तान् देशात् बहिः निष्कासयितुं लक्ष्यं निर्धार्यते : अमित-शाहः
कोलकाता-नगरम्, १५ अप्रैलमासः (हि.स.)। केन्द्रीय-गृह-मन्त्री अमित-शाहः बुधवासरे उक्तवान् यत् निर्वाचन-आयोगेन पश्चिम-बङ्गस्य मतदाता-सूच्याः अवैधप्रवेशकानां केवलं नामानि एव अपासारितानि सन्ति, किन्तु अग्रिमः चरणः तान् देशस्य सीमाभ्यः बहिः निष्कासयितुं
अमित शाह


कोलकाता-नगरम्, १५ अप्रैलमासः (हि.स.)। केन्द्रीय-गृह-मन्त्री अमित-शाहः बुधवासरे उक्तवान् यत् निर्वाचन-आयोगेन पश्चिम-बङ्गस्य मतदाता-सूच्याः अवैधप्रवेशकानां केवलं नामानि एव अपासारितानि सन्ति, किन्तु अग्रिमः चरणः तान् देशस्य सीमाभ्यः बहिः निष्कासयितुं भविष्यति। अग्रिम-विधानसभानिर्वाचनानां सन्दर्भे उत्तर-बङ्ग-प्रदेशे निर्वाचन-प्रचार-काले तेन एतत् वक्तव्यं दत्तम्।

कूचबिहार-जनपदस्य तुफानगञ्ज-स्थले आयोजितायां जनसभायां सम्बोधयन् अमित-शाहः अवदत् यत् भारतीय-जनता-पक्षस्य सर्वकारे सति पूर्वीय-सीमाः एवं सुदृढतया निरुद्धाः भविष्यन्ति यत् “पक्षी अपि पक्षा न प्रहर्तुं शक्नोति।” तेन आरोपितं यत् मुख्यमन्त्री ममता-बनर्जी सीमा-सुरक्षा-बलाय आवश्यकां भूमिं प्रदातुं न इच्छति। शाहेन उक्तं यत् भाजपा-सर्वकारस्य स्थापने अनन्तरं पञ्चचत्वारिंशद्दिनेषु सीमाङ्कन-कार्यं सम्पन्नं करिष्यते।

तेन उक्तं यत् एतत् केवलं अवैधप्रवेश-निरोधपर्यन्तं न सीमितम् अस्ति, अपि तु ये जनाः पूर्वमेव देशे प्रविष्टवन्तः सन्ति, तेषां निष्कासनम् अपि आवश्यकम् अस्ति। तेन आरोपितं यत् तृणमूल-काङ्ग्रेस-सरकार अवैधप्रवेश-प्रश्ने गम्भीरता न धारयति।

अद्यतनकाले मतदाता-सूच्याः विशेष-गहन-पुनरीक्षण-अभियानस्य (एसआईआर) अवसरे बहूनां नाम्नां अपसारणस्य उल्लेखं कुर्वन् अमित-शाहः अवदत् यत् अस्मिन् विषये राजनैतिक-विवादः कृत्रिमतया उत्पद्यते। तृणमूल-काङ्ग्रेसेन अस्य प्रक्रियायाः विषये निर्वाचन-आयोगस्य पक्षपातस्य आरोपाः अपि कृताः सन्ति।

केन्द्रीय-गृह-मन्त्रिणा मुख्यमन्त्रिणि ममता-बनर्जी उत्तर-बङ्गस्य उपेक्षायाः आरोपः कृतः। तेन उक्तं यत् राज्यस्य अर्थसङ्कल्पे अस्य प्रदेशस्य अपेक्षितं महत्त्वं न प्रदत्तम्। तेन उक्तं यत् भाजपा-सर्वकारे सति राजबंशी-भाषा संविधानस्य अष्टमी-अनुसूच्यां समावेश्यते तथा ‘नारायणी-बटालियन’ इत्यस्य गठनम् अपि क्रियते।

जलग्रामस्य राजगञ्ज-स्थले अन्यस्यां सभायां केन्द्रीय-गृह-मन्त्री अमित-शाहः अवदत् यत् भाजपा-सत्तायां आगत्य तृणमूल-काङ्ग्रेस-नेतृभिः कृतस्य कथित-भ्रष्टाचारस्य एकैकां राशिं पुनः ग्राहयित्वा जनतायै प्रत्यर्पयिष्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता