अगर कोई गड़बड़ी करेगा तो बुलडोजर से जवाब दिया जाएगा : राजनाथ सिंह
दक्षिणदिनाजपुरम्, 15 अप्रैलमासः (हि.स.)। पश्चिमबङ्गे विधानसभा-निर्वाचनात् पूर्वं कुमारगञ्जे केन्द्रीय-रक्षामन्त्रिणः राजनाथ सिंहस्य ''रोड शो'' (मार्ग-प्रदर्शनम्) इत्यनेन राजनैतिकवातावरणं तप्तं जातम्। भारतीयजनतापक्षस्य (भाजपा) प्रत्याशिनः शुभैन्दु
राजनाथ सिंह का रोड शो करते हुए


दक्षिणदिनाजपुरम्, 15 अप्रैलमासः (हि.स.)। पश्चिमबङ्गे विधानसभा-निर्वाचनात् पूर्वं कुमारगञ्जे केन्द्रीय-रक्षामन्त्रिणः राजनाथ सिंहस्य 'रोड शो' (मार्ग-प्रदर्शनम्) इत्यनेन राजनैतिकवातावरणं तप्तं जातम्। भारतीयजनतापक्षस्य (भाजपा) प्रत्याशिनः शुभैन्दु-सरकारस्य समर्थने आयोजितां एतां मार्गयात्रां तृणमूलकाङ्ग्रेस-दलेन ‘फ्लॉप-शो’ (असफलं प्रदर्शनम्) इति घोषितं, तत्रैव भाजपा-दलेन जनसम्मर्दस्य न्यूनतायाः कारणं कठोरा सुरक्षाव्यवस्था इति कथितम्।

​बुधवासरे मध्याह्ने राजनाथ सिंहः 'हेलीकॉप्टर' माध्यमेन कुमारगञ्जं प्राप्तवान् तथा च नाककाटी स्थानात् बस-स्थानकं प्रति गत्वा ततः 'पेट्रोल-पम्प' पर्यन्तं विवृते वाहने 'रोड शो' कृतवान्। भाजपा-दलस्य दावः अस्ति यत् सुरक्षाकारणैः बहुषु स्थानेषु यातायातं अवरुद्धं कृतं, येन बहवः समर्थकाः कार्यक्रमे सम्प्राप्तुं न शक्तवन्तः।

​'रोड शो' इत्यस्य अन्तरे राजनाथ सिंहः विधि-व्यवस्थायां कठोरं रुखं दर्शयन् अवदत् यत् यदि कश्चित् अव्यवस्थां (गड़बड़ी) करिष्यति तर्हि “बुलडोजर (भञ्जकयन्त्रेण) इत्यनेन उत्तरं दास्यते।”

​शिक्षक-नियुक्ति-घोटाला-विषयस्य उल्लेखं कुर्वन् सः राज्यसर्वकारस्य उपरि तीक्ष्णं प्रहारं कृतवान् तथा च अवदत् यत् योग्यानां अभ्यर्थिनां सह अन्यायः जातः अस्ति। सः विश्वासं दत्तवान् यत् भाजपा-दले सत्तायाम् आगते सति पारदर्शिनी नियुक्तिप्रक्रिया प्रवर्तयिष्यते।

​सः सीमावर्तिषु क्षेत्रेषु 'फेन्सिङ्ग' (कण्टकित-तारवेष्टनम्) न भवितुं विषये चिन्तां प्रकटितवान् तथा च राज्यसर्वकारस्य उपरि असहयोगस्य आरोपं कृतवान्। तत्रैव, निर्वाचनात् पूर्वं अनेन कार्यक्रमेण क्षेत्रस्य राजनीतिः अधिका उत्तप्ता संजाता अस्ति।

​सभाम् सम्बोधयन् राजनाथ सिंहः अपृच्छत् यत् किं नियमः संविधानं च ममतायाः इच्छानुसारं चलितव्यम्? पञ्चदश वर्षाणि अतीतानि, तथापि विकासात् विना बङ्गालेन केवलं विनाशः एव दृष्टः।

----------------

हिन्दुस्थान समाचार