Enter your Email Address to subscribe to our newsletters

गङ्गटोक-नगरम्, १५ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी द्विदिनीय-सिक्किम-भ्रमणाय आगमिष्यति। प्रथम-दिने सः राजधानी-नगरे मार्ग-प्रदर्शने (रोड-शो) भागं ग्रहीष्यति, द्वितीय-दिने च पाल्जोर-स्टेडियम्-स्थले जनसभां सम्बोधयिष्यति।
मुख्यमन्त्री प्रेम-सिंह-तामाङ्गः अवदत् यत् यदि निर्धारित-कार्यक्रमे परिवर्तनं न भवति तथा वातावरणं अनुकूलं भवति, तर्हि प्रधानमन्त्री २७ अप्रैल-दिने सिक्किम-राज्यं आगमिष्यति। तस्य हेलीकॉप्टरं अपराह्णे त्रिवादने लिबिङ्ग-स्थले सैन्य-हेलिपैड् उपरि अवतरीष्यति। ततः सः लोक-भवन-पर्यन्तं आयोजिते मार्ग-प्रदर्शने अपि सहभागी भविष्यति।
तेन उक्तं यत् सिक्किम-सर्वकारेण मार्ग-प्रदर्शनस्य कृते सर्वाः सिद्धताः कृताः सन्ति। तेन जनान् आह्वानं कृतं यत् ते द्विवादने राजधानी-नगरे समागत्य प्रधानमन्त्रिणः भव्यं स्वागतं कुर्वन्तु। सः अवदत् यत् प्रधानमन्त्री तस्मिन् दिने राजधानी-नगरे स्थास्यति तथा २८ अप्रैल-दिने पाल्जोर-स्टेडियम्-स्थले कार्यक्रमे भागं ग्रहीष्यति।
मुख्यमन्त्री अवदत् यत् गत-वर्षे २९ मई-दिने अपि प्रधानमन्त्रिणः आगमनं निर्धारितम् आसीत्, किन्तु दूषित-वातावरण-कारणेन सः आगन्तुं न अशक्नोत्। तदा सः बागडोगरा-नगरात् आभासीय-रीत्या सिक्किम-जनान् सम्बोधितवान्। तेन उक्तं यत् सः प्रधानमन्त्रिणा सह द्विवारं मिलित्वा तं व्यक्तिगततया आगत्य सिक्किम-जनान् आशीर्वदितुं अनुरोधितवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता