Enter your Email Address to subscribe to our newsletters

प्रयागराजनगरम्, १६ अप्रैलमासः (हि.स.)। नगर-निगम-प्रयागराजस्य महापौरः गणेश-केसरवानी स्मार्ट-सिटी-अभियान-अन्तर्गतं ‘ऑपरेशन-कायाकल्प-योजना’-द्वारा हरवारा-प्रथम-स्थित अभ्युदय-उच्च-प्राथमिक-कम्पोजिट-विद्यालयस्य नवनिर्मित-भवनस्य लोकार्पणं कृतवान्। अस्मिन् अवसरे क्षेत्रे उत्साहपूर्णं वातावरणं दृश्यते स्म तथा बहवः जनप्रतिनिधयः, अधिकारिगणः, शिक्षकाः स्थानीय-नागरिकाश्च उपस्थिताः आसन्।
महापौरः उक्तवान् यत् नगर-निगमः सततं प्रयत्नशीलः अस्ति यत् सर्वे विद्यालयाः आधुनिक-संसाधनैः सुसज्जिताः भवन्तु, येन छात्राः गुणवत्तापूर्णां तकनीकी-समृद्धां च शिक्षां प्राप्नुयुः। सः अवदत् यत् एषः नवनिर्मितः विद्यालयः केवलं भवनं न, अपि तु आगामिनां पीढीनां उज्ज्वल-भविष्यस्य सुदृढ-आधारः भविष्यति।
अत्र विद्यार्थिनां समग्र-विकासाय स्वच्छ-सुसज्जित-कक्षाः, डिजिटल-स्मार्ट-बोर्ड, आधुनिक-विज्ञान-प्रयोगशाला, सङ्गणक-प्रयोगशाला, पाचन-गृहं, गार्ड-कक्षः तथा शैक्षिक-भित्ति-चित्राणि इत्यादयः सुविधाः प्रदत्ताः सन्ति। एताः सर्वाः व्यवस्थाः बालकेभ्यः सुरक्षितं, प्रेरणात्मकं तथा आधुनिकं शिक्षण-पर्यावरणं प्रदास्यन्ति।
महापौरः पुनः उक्तवान् यत् एतादृशाः प्रयासाः शिक्षां अधिकं रोचकां व्यावहारिकीं प्रभावशालीं च कुर्वन्ति तथा छात्रान् आत्मनिर्भरत्वाय प्रेरयन्ति। नगर-निगमस्य लक्ष्यं सर्वेषु बालकेषु गुणवत्तापूर्ण-शिक्षायाः संसाधनानां च उपलब्धिः सुनिश्चेतुं, येन ते आत्मविश्वासेन राष्ट्र-निर्माणे योगदानं दातुं शक्नुवन्ति।
अस्मिन् अवसरे पूर्व-सांसदः प्रो.रीता-बहुगुणा-जोशी, पार्षदाः, शिक्षा-अधिकारी, शिक्षकाः तथा बहवः स्थानीय-जनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता