Enter your Email Address to subscribe to our newsletters

जम्मूः, 16 अप्रैलमासः (हि.स.)। केंद्रीयविश्वविद्यालयजम्मूस्थस्य कम्पेरेटिवरिलिजनएण्डसिविलाइजेशन्सकेन्द्रेण “भारतीयसंस्कृतौ लोकसाहित्यस्य लोकपरम्पराणां च महत्त्वम्” इति विषयपरकः थर्सडेमाइण्डमीट् नामकः कार्यक्रमः आयोजितः, यस्मिन् जम्मूकश्मीरस्य सांस्कृतिकविरासतायाः विषये विशेषः बलः प्रदत्तः। अस्मिन् कार्यक्रमे कुलपतिः प्रो. (डॉ.) संजीवजैनः, पद्मश्रीसम्मानितः मोहनसिंहस्लाठिया, सामाजिकविज्ञानसंकायस्य अधिष्ठाता प्रो. ए.के. नन्दा, भाषासंकायस्य अधिष्ठात्री तथा कार्यक्रमसंयोजिका प्रो. वन्दनाशर्मा इत्यादयः बहवः विशिष्टजनाः उपस्थिताः आसन्। निदेशिका प्रो. निरञ्जनाभण्डारी सर्वेषाम् अतिथीनां स्वागतं कृतवती।
स्वस्य संबोधने प्रो. वन्दनाशर्मा अवदत् यत् थर्सडेमाइण्डमीट् विश्वविद्यालये साप्ताहिकरूपेण आयोज्यते, यस्य उद्देश्यं छात्राणां निहितप्रतिभानां प्रकाशनम् अस्ति। सा उक्तवती यत् अयं कार्यक्रमः पूर्णतया छात्रैः एव संचालितः भवति। पद्मश्री मोहनसिंहस्लाठिया जम्मूकश्मीरस्य लोकसंस्कृतेः परम्पराणां च महत्त्वं विस्तरेण व्याख्यातवान्। तेन उक्तं यत् डोगरसंस्कृतेः विविधाः आयामाः भारतीयसंस्कृतिं समृद्धयन्ति।
कार्यक्रमे छात्रपैनलिस्टाः अपि स्वस्वविचारान् प्रस्तुतवन्तः। दीवांशुराठौरः राजस्थानस्य संस्कृतिं विवृणोत्, ऋषितामनहास् डोगराभूषणानां प्रतीकात्मकमहत्त्वं निरूपितवती, अंकितकुशवाहा बिहारस्य छठपर्वणः विषये प्रकाशं दत्तवान्, तथा राहुलकुमारः हरियाणायाः लोकसंस्कृतेः विषये विवेचनं कृतवान्। कार्यक्रमस्य संचालनं हीनमभगता कृतम्।
अस्मिन् अवसरे प्रो. दीपकपठानिया, प्रो. ऋचाकोठारी, डॉ. राजठाकुर, डॉ. फारूक, डॉ. नीनाविज, डॉ. अरविन्दऋतुराज, डॉ. अश्वनीकुमार, डॉ. अमितागुप्ता तथा डॉ. जी.वी. स्निग्धाराज इत्यादयः बहवः अध्यापकाः शोधार्थिनश्च भागं गृहीतवन्तः। कार्यक्रमे विभिन्नविभागानां शोधार्थिनां छात्राणां च सक्रियसहभागिता आसीत्, येन एषः आयोजनः ज्ञानवर्धकः प्रेरणादायकश्च अभवत्।
हिन्दुस्थान समाचार